________________
३९८ जैन आचार्यों द्वारा विरचित ता० स्तोत्र यः संस्तुतः सकल-वाङ्मय-तत्त्वोधादुद्भूत-बुद्धि-पटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितय-चित्त-हरै-रुदारैः
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ।।२।। बुद्ध्या विनापि बिबुधार्चित-पादपीठ! स्तोतुं समुद्यत-मतिर्विगत-त्रपोऽहम् ।
बालं विहाय जल-संस्थित-मिन्दु-बिम्ब
___मन्यः क इच्छति जनः सहसा गृहीतुम् ।।३।। वक्तुंगुणान् गुण-समुद्र-शशाङ्क-कान्तान्, कस्ते क्षमः सुरगुरु-प्रतिमोऽपि बुद्धया। कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं,
को वा तरीतु-मलमम्बुनिधिं भुजाभ्यां ।।४।। सो हं तथापि तव भक्ति-वशान्मुनीश! कर्तुं स्तवं विगत-शक्ति-रपि प्रवृत्तः । प्रीत्यात्म-वीर्य-मविचार्य मृगी मृगेन्द्रम्,
नाभ्येति किं निजशिशोः परिपालनार्थम् ।।५।। अल्पश्रुतं श्रुतवतां परिहास-धाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम्। यत्कोकिलः किलमधौ मधुर विरौति,
तच्चाम्र-चारु-कलिकानिकरैकहेतुः।।६।। त्वत्संस्तवेन भवसन्ततिसन्निबद्ध, पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोक-मलिनील-मशेषमाशु,
सूर्यांशुभिन्नमिव शार्वर-मन्धकारम् । ७ ।। मत्वेति नाथ! तव संस्तवनं मयेदमारभ्यते तनुधियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनी-दलेषु,
मुक्ताफल-द्युति-मुपैति ननूद-बिन्दुः ।।८।। आस्तां तव स्तवन-मस्त-समस्त-दोषम्,
त्वत्-सङ्कथापि जगतां दुरितानि हन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org