________________
३९२ जैन आचार्यों द्वारा विरचित ता० स्तोत्र एवं 'बृहन्नमस्कार' प्रोक्तं श्रीशान्तिमन्त्रकम् । यद्वा'थंभेइ जलं० इत्यादिगाथां जपन् शताधिकाम् । ।५६ ।। शुक्ल वस्त्रेण संछाद्यं त्रिसन्ध्य मष्टपूजया। त्रिदिनं त्रिदिनस्यान्ते महापूजापुरस्सरम् ।।६०।। अभिषेकजलं तत् तु क्षेप्यं श्रीकलशान्तरे । श्रीशान्तिप्रतिमां हस्ति-शिबिका-रथमूर्धनि ।।६१।। शुक्लवस्त्र वृताङ्गस्य नरस्य ब्रह्मचारिणः । कुलशुद्धस्य मान्यस्य मूनि कृत्वा सचामराम् ।।६२ ।। छत्रेण सहितां चन्द्रोदये ध्वजस्रजाञ्चिताम् । तूर्य त्रिकोल्लसद्वाता प्रदीपद्युतिभासुराम् ।।६३ ।। चतुर्विधेन सङ धेन संयुतः सूरिरुद्यमी। मारिगृहीतग्रामाद्यष्टदिक्षु प्रददेद् बलिम् । ६४।। दिने तस्मिन्नमारिः स्यात् पटहोद्घोषपूर्वकम् । चतुर्विधाय सङ्घाय भक्त्या दानं दिशेन्मुनिः ।।६५ ।। दानं दीनादिषु प्राज्यं दे यमेवं कृते सति । मारिर्निवर्तते किन्तु तत्कुम्भजलसेचनात् ।।६६ ।। गो मार्यादिषु गोवाटप्रवेशे श्रावकैः शुभैः । तत्कुम्भजलसिक्ता गौमूनि गोमारिवारणम् ।।६७ ।। पञ्चमे वलये लेख्या 'ॐ नमः पूर्वमेषिका। 'स्वाहा'न्ता गाथिका क्षेत्र-स्वसैन्यत्राणकारिणी।।६।। "अद्वैव य अट्ठसयं अट्ठसहस्सा य अट्ठकोडीओ। रक्खंतु मे सरीरं देवासुरपणमिया सिद्धा" ।।६६ ।। भूर्यादावेषिका गाथा लिखिता चन्दनादिभिः । रक्ष्या जिनान्तिके पूज्या बद्धा दोषज्वरापहा । ७०।। 'ॐ नमो अरिहंताणं' पूर्वं 'अट्टविहा'दिकाम् | गाथां वलये षष्ठे “स्वाहान्तां विलिखेन्मुनिः । ७१।। "अट्टविहकम्ममुक्को तिलोयपुज्जो य संथुओ भयवं । अमर-नर-रायमहिओ अणाइनिहणो सिवं दिसउ"।७२।। सप्तमे वलये 'ॐ' प्राक् ‘नमो सिद्धाणं' इत्यतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.