________________
३९१ . जैन धर्म और तांत्रिक साधना जापः शतं सहस्रं वाऽग्निस्तम्भो धर्मदर्शिनाम् ।।४५।। अष्टदलेऽम्बुजान्तश्च 'ध' पिण्डं वलये बहिः । गाथा भूमण्डलं दिक्षु 'ध' पिण्डं पूर्ववद् विधिः । ४६ ।। पद्ममष्टदलं फों 'फ'पिण्डान्तः साधकाभिधा। प्रतिपत्रं ‘फ पिण्डं च गाथा स्याद् वलये बहिः ।।४७ भूमण्डलाष्टदिग्भागे ‘फ'पिण्डं पूर्ववत् क्रिया। जापः शतं सहस्रं वा तुल्या(ला)-दिव्यनिषेधनम् ।।४८ ।। पद्यमष्टदलं मध्ये हौ स्याद् 'ह'पिण्डमध्यगम् । साध्यनाम दलेष्वन्तः 'ह'पिण्डं वलये बहिः ।।४६|| गाथा भूमण्डलं दिक्षु 'ह'पिण्डं पूर्ववद् विधि: जापः शतं सहस्रं वा घटसर्पनिषेधनम् ।।५० ।। पदममष्टदलं मध्ये क्लौँ 'क्ष'पिण्डमध्यगम् । साध्यनाम प्रतिपत्रं 'क्ष पिण्डं पूर्ववद् विधिः । ।५१।। गाथा भूमण्डलं दिक्षु क्षपिण्डं पूर्ववद् विधि: जापः शतं सहस्रं वा जयेत् पक्षादिजं विषम् ।।५२ ।। पद्ममष्टदलं गर्भे 'क्ष'पिण्डं साध्यनामयुक् । 'क्ष पिण्डं प्रतिपत्रान्तः सगाथं वलयं बहिः ।।५३।। भूमण्डलाष्टदिग्भागे 'क्ष पिण्डं पूर्ववत् क्रिया। जिहा-रण-गति-क्रोधव्यवहारनिषेधनम् ।।५४ ।। देश-ग्राम-पुरं यद्वा गृहस्यैकस्य वा गवाम् । शाकिन्यादिकृतां मारिं निषेद्भुमिह सुव्रती।।५५ ।। भूर्यादौ चक्रमालिख्य तद्देशाद्यभिधायुतम् | कृत्वा रक्षां सिकत्थकेनावेष्ट्य मन्त्रोभिमन्त्रितम् ।।५६ ।। कांस्यपत्रे नवे शान्तिप्रतिमाचरणाग्रतः । रक्षां तां त्रिमधुरेणाकण्ठं शान्तिं तु पूरयेत् ।।५७ ।। शान्तिपाठमुक्त्वा स्त्री-गज-रत्न-चक्रमहतीं राज्यश्रियं श्रेयसे प्रव्रज्या दुरिताश्रयप्रमथनी येन श्रितःभूत् पुरा । मृत्यु-व्याधि-ज़रा-वियोगमगमत् स्थानंच योऽत्यद्भुतं। तं वन्दे मुनिमप्रमेयमृषभं सेन्द्रामराभ्यर्चितम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org