________________
३८१
जैन धर्म और तांत्रिक साधना किं कामधेनुः सुरपादपो वा किं कामकुम्भः सुमनो मणिर्वा । यदि प्रसन्नः सकलेष्टदायी श्रीसूरिमन्त्रोऽसि जगत्पतिस्त्वम् ।।३।। त्वयि स्थिते किं ननु विघ्नवर्गाः के दुर्जनाः के प्रतिपक्षभूपाः । के वैरिणस्ते किमुपद्रवाश्च स्वामिन्! समग्रं हि सुखाकृदेव ।।४।। न लब्धयः काश्चन ते प्रभावात् त्वयि प्रभो! भक्तिभृतां दुरापाः । सदा सुखानन्दितचेतसो यत् खेलन्ति ते श्रीमहिमप्रभाभिः ।।५।। प्रवर्तितं तीर्थमिदं जनस्य जयाद्यदाहुः प्रसहेत कुष्ठी। यदानमो यद्विजयी च धर्मस्त्वमत्र हेतुर्भगवाँस्त्वमेव ।।६।। श्रीवर्धमानस्य निदेशतस्त्वं प्रतिष्ठितो गौतमगच्छनेत्रा। सिद्धिः समग्रा शिवसंपदश्च सर्वोग्रपुण्यानि फलानि दत्से । ७ ।। इति महामुनिसुन्दरसंस्तवोऽकृत गणेश्वरमन्त्रपतेर्मया। महिमवारिनिधेः स्तुतभक्तितो वितर मेऽर्थितसर्वसुखश्रियम् ।।८।।
इति श्रीसूरिमन्त्रस्तुतिः ।। श्रीसूरिमन्त्रीस्तोत्रम्।
___-मुनिसुन्दर जयश्रियं शासनमार्हतं श्रीसूरीश्वरा यस्य महामहिम्ना। नयन्ति बाह्यान्तरवैरिनाशादाचार्यमन्त्रं तमहं स्तवीमि ।।१।। न किं मुखं तस्य वशे न का वा सिद्धिर्न बुद्धिर्न हि वा समृद्धिः । श्रीमन्त्रणेन भगवन्! निवासं करोषि नित्यं हृदये यदीये।।२।। गणाधिपो वा जिननायको वा आद्योऽपि धर्मोऽस्य महामहिम्ना। स्तुतिस्तवैषा शुचितोपमाना न चातिहानस्त्रिदशद्रुमाद्यैः । ।३।। ध्येयस्त्वमेवासि परो जगत्सु प्रभुस्तु दानेऽर्थितशर्मलक्ष्म्या। इमं पुनः कारण-कार्ययोगं के नामविनोऽग्रभाम्य (?) ।।४।। किमामयस्तस्य खलो रिपुर्वा दुःखं भयं पापमथापि विघ्नः । त्राताऽसि मन्त्राधिप! यस्य वजं भिनत्तिस चाण्वखिलान्यहिद्रून् ।।५।। तीर्थस्य धर्मस्य तथाहतस्य हेतुस्त्वमेकोऽसि कलौ प्रवृत्ते। कलेर्हि नान्योऽभिभवे प्रभुत्वं धत्ते दवाग्नेरिव वारिवाहः ।।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org