________________
३८२ जैन आचार्यों द्वारा विरचित ता० स्तोत्र परमेष्ठिविद्यायन्त्रम्।
-श्रीसिंहतिलकसूरि श्रीवीरजिनं नत्वा वक्ष्ये श्रीविबुधचन्द्रपूज्यपदम् । गणिविद्यायुगपदतो यन्त्रं परमेष्ठिविद्यायाः ।।१।। त्रिप्रकारं क्रमशश्चतुरष्ट-द्वयष्टपत्रपाद्मान्तः । किजल्कपूज्यबीजं यन्त्रं लेख्यं सुरभिदलैः।।२।। मध्ये 'ऽहूँ,' ऊर्ध्वादिषु सि आ उ सा रेखिकादलचतुष्के। ऋषभोऽथ वर्धमानश्चन्द्रानन-वारिषेणको दिक्षु ।।३।। अष्टदलेषु क्रमशो 'युगादिनाथाय तद् 'नमो ऽत्रैव । गोमुख-चक्रेश्वरौ शस्य कान्तं जिनः सुरश्च सुरी।।४।। हृयष्टदलेषु क्रमशः 'सुविधिजिनाय नमः' इत्यथ त्रिदशः । देवी श्रीवीरान्तं एवं तद् वच्मि नामानि ।।५।। युगादीशोऽजितः स्वामी शम्भवोऽप्यभिनन्दनः । सुमतिः पद्मलक्ष्मा श्रीसुपार्श्वश्चन्द्रलाञ्छनम् ।।६ ।। सुविधिः शीतलः श्रेयान् वासुपूज्यप्रभस्ततः । विमलानन्तधर्मः श्रीशान्ति-कुन्थुररो जिनः ।।७।। मल्लिः (च) सुव्रत नमी नेमी श्रीपार्श्वतीर्थकृत् । 'वीर' श्च जिननामान्ते 'नाथाय नमः' इत्यदः ।।८।। 'श्रीगो मुखो महायक्षत्रिमुखो यक्षनायकः । तुम्बरुः सुमुखस्तस्मान्मातङ्गो विजयोऽजितः ।।६।। ब्रह्मा यक्षेट् कुमारः षण्मुखः पाताल-किन्नराः । गरुडो गन्धर्वो यक्षेन्द्रः कुबरो वरुणस्तथा।।१०।। भृकुटिर्गोमेधः पार्यो मातङ्गोऽमी निजाश्रिताः । चक्रेश्वरी अजितबला दुरितारिश्च कालिका ।।११।। महाकाल्यच्युता श्यामा भृकुटिश्च सुतारिका। अशोका मानवी चण्डा विदिताऽथ प्रियाङ्कुशा।।१२।। कन्दर्पा निर्वाणी बला धारिणी धरणप्रिया। नरदत्ताथ गान्धारी अम्बिका पद्मावती तथा।।१३।। सिद्धायिका इमा जैन्यः क्रमात् शासनदेवताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org