________________
[२७]
प्रमत्तसंयतानाम् ॥ ३४॥ हिंसानृत-स्तेयविषयसंरक्षणेभ्योरौद्रमविरत-देशविरतयोः ॥३५॥ आज्ञापाय विपाकसंस्थान-विचयाय धर्म्यम् ॥ ३६॥ शुक्ले चाद्ये पूर्वविदः ॥ ३७॥ परेकेवलिनः ॥३८॥ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपाति-व्युपरत क्रियानिवर्तीनि॥३९॥त्र्येकयोग-काययोगा योगानाम् ॥४०॥ एकाश्रये सवितर्क-वीचारे पूर्वे ॥४१॥ अवीचारं द्वितीयम्॥४२॥वितर्कः श्रुतम् ॥४३॥वीचारोऽर्थव्यञ्जन-योगसंक्रान्तिः ।।४४॥सम्यग्दृष्टि-श्रावक-विरतानन्तवियोजक-दर्शनमोह-क्षपकोपशमकोपशान्त-मोहक्षपकक्षीणमोह-जिना:क्रमशोऽसंख्येय-गुणनिर्जरा ॥४५॥पुलाकवकुश-कुशील-निर्ग्रन्थ-स्नातका निर्ग्रन्थाः ॥४६॥ संयमश्रुत-प्रतिसेवना-तीर्थ-लिङ्ग-लेश्योपपाद-स्थान-विकल्पतः साध्याः॥४७॥
इति तत्वार्थाधिगमे मोक्षशास्त्रे नवमोऽध्यायः ॥ ९॥ मोहक्षयाज्ज्ञान-दर्शनावरणान्तराय-क्षयाच्च केवलम् ॥१॥ बन्धहेत्वभाव-निर्जराभ्यां कृत्स्न-कर्म-विप्रमोक्षो मोक्षः।२। औपशमिकादि-भव्यत्वानां च ॥३॥ अन्यत्र केवल सम्यक्त्व ज्ञान-दर्शन-सिद्धत्वेभ्यः ।।४॥तदनन्तरमूर्ध्वगच्छत्यालोकान्तात् ॥५॥ पूर्वप्रयोगादसङ्गत्वाद्बन्धच्छेदात्तथा गति-परिणामाच्च ॥६॥आविद्धकुलालचक्रवद्व्यपगतले पालाबुवदेरण्डबीजवदग्निशिखावच्च ॥७॥धर्मास्तिकायाभावात् ॥८॥क्षेत्रकाल गति-लिङ्ग-तीर्थ-चारित्र प्रत्येकबुद्धबोधित-ज्ञानावगाहनान्तर संख्याल्पबहुत्वतः साध्याः ॥९॥
इति तत्वार्थाधिगमे मोक्षशास्त्रे दशमोऽध्यायः ॥ १०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org