________________
444
Dr. Charlotte Krause : Her Life & Literature
(6) वीर-स्तुतिः पापाधाधानिधाधा धम धम धगसा सागसा सारिगापा
सासागागारिधापा निगरम सरिगा पापगा सारिधाधा । इत्थं षड्जादिरम्यं करणलययतं सत्कलाभिः समेतं
संगीत यस्य देवैर्विहितमतिशुभं पात्वसौ वर्द्धमानः ।। 1 ।। पुन्दा पुन्दा पुषुन्दा डिषि डिषि डिषिमा टाघुमाटां घुमाटां
दुक्मां दुक्मां दुदुक्मां दुलि दुलि दुलिमां भीभभां भम्भभाम्भम् । तल्मां छल्मां छछल्मां टिकरिटिकरिमां भाम्भ्रुवां भम्भ्रुवाम्भ्रम्
येषामातोद्यवाद्यं विदधति विबुधाः पान्तु वस्तीर्थपास्ते ।। 2 ।। कोटेण्टं रावणेण्टं त्रिभुवनकरिटं कर्पणण्टं रणण्टं
डाव्यं डाव्यं डडाव्यं डह डह डहवत् त्राङ्गुलं त्रामुनेत्रम् । झम्प्रं झम्प्रं झझम्प्रं त्रिषि मषि षुषुमां भाक्षुभिः क्षुद्रमासै
रेभिस्तूरलेशं जिनपतिवचसः पातु पूज्योपचारः ।। 3 ।। त्रेताभिस्त्रोटयन्ती त्रुटितकटितट कण्टकं लोटयन्ती
कोटान्दुःकोटयन्ती कपटमतिमटङ्कापदं शाटयन्ती । उत्तालाफालैः स्फुटजटिलजटाजूटकं जोटयन्ती
वैरोठ्याऽव्याज्जयन्ती घनमदमवशा छन्दसा वर्द्धमानम् ।। 4 ।।
(7) महावीर-स्तुतिः
- श्रीजिनपतिसूरिकृता मदनदहननीरं क्रोधनोबैकधीरं
मदजलदसमीरं दम्भभूभेदसीरम् । जलधिगुरुगभीरं लब्धलोभाब्धितीरं
___कनकरुचिशरीरं श्रीजिनं नौमि वीरम् ।। 1 ।। हतविषयविकाराः कर्मवल्लीकुठाराः
नतसुरवरवाराः प्राप्तसंसारपाराः । सुखमतुलमुदारास्तीर्थपा लोकसारा
ददतु शिववधूरोमण्डने तारहाराः ।। 2 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org