SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Ancient Jaina Hymns ऋद्ध्या सिद्धियुतः कृतीजजनको गौरीगुरुस्त्वं सदा जैनैर्जेनेतरैश्चाद्भुततरविभवैर्गीयसेऽस्यां जगत्यां ।। 20 ।। सूरिश्रीविजयप्रभादिसुगुरौ राज्यस्थितिं कुर्व्वति प्रीत्येवं नयपूर्वताविमलयुङ्नाम्ना प्रभुः संस्तुतः । भूयास्त्वं भवभीतिभेदभिदुराकारोपमानः सदा स्वर्द्धामद्रुमसान्नभो मम पुनः सर्वार्थसम्पत्तये ।। 21 11 ( 5 ) श्रीतीर्थमालाचैत्यवन्दनम् श्रीशत्रुञ्जयरैवताद्रिशिखरे द्वीपे भृगोः पत्तने सिंहद्वीपधनेरमङ्गलपुरे चाज्जाहरे श्रीपुरे । कोडीनारकमन्त्रिदाहडपुरे श्रीमण्डपे चार्बुदे जीरापल्लिफलर्द्धिपारकनगे शैरीसशङ्खेश्वरे ।। 1 ।। चम्पानेरकधर्मचक्रमथुरायोध्याप्रतिष्ठानके वन्दे स्वर्णगिरौ तथा सुरगिरौ श्रीदेवकीपत्तने । हस्तोडीपुरपाडलादशपुरे चारूपपञ्चासरे वन्दे श्री करणावतीशिवपुरे नागद्रहे नाणके ।। 2 मेरौ कुण्डलमानुषे च रुचके वैताढ्यनन्दीश्वरे वन्देऽष्टापदगुण्डरे गजपदे सम्मेतशैलाभिधे । विन्ध्यस्थम्भनशीट्ठमीट्ठनगरे राजद्रहे श्रीनगे कुन्तीपल्लविहारतारणगढे सोपारकारासणे ।। 3 ।। द्वारावत्यपरे गढे मढगिरौ श्रीजीर्णवप्रे तथा थारापद्रपुरे च वाविहपुरे कास हे चेडरे । श्रीतेजल्लविहारनिम्बतटके चन्द्रे च दब्र्भावते वन्दे सत्यपुरे च बाहडपुरे राडद्रहे वायडे ।। 4 ।। वन्दे नन्दसमे समीधवलके मर्जादमुण्डस्थले मोढेरे दधिपद्रकर्करपुरे ग्रामादिचैत्यालये । ज्योतिर्व्यन्तरकल्पवासिनिलये भौमेषु वा भूतले ते सर्व्वेऽपि हि शाश्वतेतरजिनाः कुर्व्वन्तु वो मङ्गलम् ।। 5 ।। Jain Education International 443 For Private & Personal Use Only www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy