SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ 442 Dr. Charlotte Krause : Her Life & Literature दुर्ध्यानद्रुमखण्डखण्डनखटो दुर्दम्यदन्ताबलः श्रीधीराद्विमलप्रबोधकमलप्रीतिप्रदानोज्ज्वलः । सद्ध्यानप्रबलप्रतापबहुलज्वालावलीधूमलो ध्वस्ताशेषखलः खलीकृतमल: सिद्धयङ्गनाकामलः ।। 13 ।। मूर्द्धिन स्फारणफणीन्द्रजालजटिलोऽक्षुद्रक्षमाकन्दलः सम्यग्ज्ञानजलप्रवाहपयसा प्रक्षालितक्ष्मातलः । धैर्यस्वय॑चलः सुसाधितकलो दौर्गत्यवारार्गलो दत्ताभीष्टफलः पुनातु भुवनं पार्थो घनश्यामलः ।। 14 ।। पार्श्व त्वत्पदपद्मपूजनकृते सत्केतकीनां वने तीक्ष्णैरुत्कटकण्टकैश्च सततं विध्यन्ति येषां कराः । तेषां चारुपतिंवरेव भविनां चक्रित्वशक्रश्रियः स्वैरस्थैर्यतया चलत्वरहिता भव्यं भजन्ते प्रभो ।। 15 ।। साफल्यं जनुषो ममाद्य सुतरां जातं प्रशस्यो दिनः श्लाघ्यं जीवितमद्य हृद्यसफलश्रेयानयं स क्षणः । जाता कृत्यकृतार्थिनी बहुफला सा धारिका कारिका सौख्यस्यैव यदीश शर्मकृदिदं त्वद्दर्शनं प्रापितम् ।। 16 ।। लोला त्वनुतिलोलुपा तव गुणग्रामायते मे श्रुति नित्यं त्वद्वदनावलोकनजुषी स्वामिन् पुनश्चक्षुषी । शीर्षं त्वत्पदमण्डनं तव विभो ध्यानैकतानं मनो जातं तन्मम सर्वमेव शुभकृदात्माप्ययं त्वन्मयः ।। 17 ।। शस्य त्वद्गुणचक्रवालजलधेः पारं न यामि प्रभो ___ आत्मीयोत्कटदुष्टदुष्कृततते! यामि पारं पुनः । तस्माद्देव तथा विधेहि भगवन् प्राप्नोमि पारं तयोः सम्यक्त्वेन विधाय भव्यकरुणां कारुण्यपात्रे मयि ।। 18 ।। श्रीखण्डागुरुघूपवासनिवहैः कर्पूरपूरैस्तथा । काश्मीरद्रवसान्द्रचान्द्रविहितैः सद्वन्दनैश्चान्दनैः । स्वामिंस्त्वत्पदयामलं गतमलं येऽर्ध्वन्ति चर्चाचणा लोके लोकिततत्त्वसत्त्वसहितास्तेऽप्यर्चनीयाः सदा ।। 19 ।। विष्णुस्त्वं भुवनेऽसि भूपतिरसि श्रेयस्करः शङ्करो धाता सत्यमहाव्रती शतधतिः कालारिरुग्रस्तथा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy