________________
440
Dr. Charlotte Krause : Her Life & Literature
हर्यामवेधनभियश्च गलन्ति तस्य
यस्तावकं स्तवमिमं मतिमानधीते ।। 44 ।। भव्याङ्गिदृक्कुमुदचन्द्रनिभप्रभाव
भोगीन्द्रभोगिललनाञ्चित पार्श्वदेव । यस्त्वां नवीति वरकाणपुराधिपैवंs
तं मानतुङ्गमवशा समुपैति लक्ष्मीः ।। 4 ।। एवं जिनेश मुनिसुन्दरवंशजाली
- संसेव्य हेमविमलस्तुतसद्गुणौघ । आशालताः सफलयेर्वरकाणनाथ
श्रीपार्श्व मे विमलधर्मशुभप्रभावात् ।। 46 ।। (4) श्रीशङ्केश्वर-पार्श्वप्रभु-स्तोत्रम्
श्रीनयविमलकृतम् ऐन्द्रश्रेणिनतावतंसनिकरभ्राजिष्णुमुक्ताफल
ज्योतिर्जालसदालबाललहरीलीलायितं पावितम् । यत्पादाद्भुतपारिजातयुगलं भाति प्रभाभ्राजितं
श्रीशङ्केरिपार्श्वनाथजिनपं श्रेयस्करं संस्तुवे ।। 1 ।। यन्नामाभिनवप्रभूतसुमहोधाराधरासारतः
कल्याणवलिवल्लरी कलयति प्रस्फूर्जतः सान्द्रताम् । भव्यानां भवदीयपादयुगलोपास्तिप्रसक्तेर्जुषां ।
श्रीशङ्केश्वरपार्श्वनाथजिनपं श्रेयस्करं संस्तुवे ।। 2 ।। यद्यानोत्कटचित्रभानुरनिशं नीरोत्करर्दिद्यते
___ मुक्तैर्दुष्टशठेन तेन कमठेनानिष्टकृत्कर्मणा । स्पष्टं जुष्टफणिस्फटामणिगणाश्लिष्टक्रमाम्भोरुहं
तं श्रीशङ्केश्वरपार्श्वनाथजिनपं श्रेयस्करं संस्तुवे ।। 3 ।। दुर्ध्यानाधिकवातकम्पितपरप्रोढप्रभावे मह
त्यस्मिन् कालकरालिते कलियुगे कल्पान्तकालोपमे । जाग्रच्चारुयशोभिराममलयोद्भूताभितः सौरभं
न श्रीशङ्केश्वरपार्श्वनाथजिनपं श्रेयस्करं संस्तुवे ।। 4 ।। श्रीमद्ध्यानविधानतानमनसां भव्यात्मनां भाविनां यत्रामापि पिपर्ति पुण्यजनितान् कामान्मनोभीष्टकान् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org