________________
Ancient Jaina Hymns
437
स्थाने गभीरहृदयोदधिसम्भवा या
__ वाचस्तवामृततुला विबुधास्त्वदीयाः । यतेंजुषां सुमनसां न परो भवत्तः
कश्चिन्मनो हरति नाथ भवान्तरेऽपि ।। 22 ।। स्वामिन्सुदूरमवनम्य समुत्पतन्तः
संसूचयन्ति भविकानिति चामराः किम् । यन्नेतरा सुतमसूत विभो समं ते
स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् ।। 23 ।। श्यामं गभीरगिरमुज्ज्वलहेमरत्न
सिंहासनेऽमरगिरिस्थनवाम्बुदाभम् । त्वामीक्षते भविककेकिगणो यतस्त्वं
नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः ।। 24 ।। उद्गच्छता तव शितिद्युतिमण्डलेन
__ भात्या वपुः परिवृतं सुषमां बिभर्ति । लुम्पत्यशोककिसलान्सलतानतस्त्वां
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ।। 25 ।। भो भोः प्रमादमवधूय भजध्वमेनं
कर्मच्छिदे विभुमिति त्रिजगज्जनौघानं ।। आमन्त्रयत्यमरदुन्दुभिरुनदस्ते
व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ।। 26 ।। उद्योतितेषु भवता भुवनेषु नाथ
भ्रष्टाधिकार इव तारकवच्छशाङ्कः । श्वेतातपत्रमिषतस्त्रितनुर्विधत्ते
तुभ्यं नमो जिन भवोदधिशोषणाय ।। 27 ।। स्वेन प्रपूरितजगत्त्रयपिण्डितेन
चन्द्रांशुसान्द्रयशसा गुणराशिपूर्णः । दोषैरलब्धनिलयैर्गमितैर्विदूरैः
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ।। 28 ।। दिव्यस्रजो जिन नमत्रिदशाधिपानां
मूर्द्धनो महामणिमयानपहाय मौलीन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org