SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Ancient Jaina Hymns ये योगिनामपि न यान्ति गुणास्तवेश स्तोतुं कथं चतुरता मम तान् समेतु । यद्वा त एव खलु यान्तु चिदाश्रयं मा मल्पश्रुतं श्रुतवतां परिहासधाम ।। 7 ।। आस्तामचिन्त्यमहिमा जिन संस्तवस्ते दूरेऽस्तु दर्शनमपि प्रशमप्रशस्यम् । नाम्नाऽपि ते दुरितसन्ततिरन्तमेति सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ।। 8 ।। हृद्वर्तिनि त्वयि विभो शिथिलीभवन्ति भव्याङ्गिनां भवशताजिर्तकर्मपाशाः । आत्मा श्रयेद्विमलतामिव शुक्तिसङ्गा मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ।। 9 ।। मुच्यन्त एव मनुजाः सहसा जिनेन्द्र त्वत्सेवनादशुभकर्मभरेण भव्याः । तेषां च धाम शुचिरं विलसत्यपास्य पद्माकरेषु जलजासिन विकाशभाञ्जि ।। 10 ।। त्वं तारको जिन कथं भविनां त एव यत्त्वां हृदा परिवहन्त्यथवान्तरस्थम् । त्वं तारयस्यथ न चेन्महतोऽय्यता का भूत्याश्रितं य इह नात्मसमं करोति ।। 11 || यस्मिन् हरप्रभृतयोऽपि हतप्रभावा स्तं मन्मथं क्षपयतो भवतोऽन्यदेवम् । कः सेवते ? ससितगव्यपयः प्रपीय क्षारं जलं जलनिधेरशितुं क इच्छेत् ।। 12 ।। स्वामिन्ननल्पगरिमाणमपि प्रपन्ना स्त्वच्छासनं लघु तरन्ति भवाम्बुराशिम् । विश्वत्रयेऽप्यनुपमाः खलु ते प्रजातो यैः शान्तगरारुचिभिः परमानुभिस्त्वम् ।। 13 |1 क्रोधस्त्वया यदि विभो प्रथमं निरस्तः शेषद्विषो विमहसः स्वयमेव नेशुः । Jain Education International For Private & Personal Use Only 435 www.jainelibrary.org
SR No.001785
Book TitleCharlotte Krause her Life and Literature
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1999
Total Pages674
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Biography, & Articles
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy