________________
Ancient Jaina Hymns
433
भवांश्च विश्वेशितरप्यगोचरै
जगत्यतस्ते समतादरिद्रता ।। 18 ।। तव क्रमौ वन्दितुमुत्सुकायितः
कृती स्वभावान्न हि नीचकैःशिराः । गरीयसा किं तु तदा समर्जित
स्वधर्मसम्भारभरेण मन्महे ।। 19 ।। उच्चैः क्रमादुन्नततां तव क्रमौ
स्वस्मिन्नुदारप्रकृती दरीधृतः । स्वभाक्तिकानामपि तां चरीकृतः
स देव दीयेत दयालुनापि यत् ।। 20 ।। प्रणेमुषां कौसुमशेखरन्ति दि
ग्विलासिनीनां विलसद्यशांसि यत् । स्फुरन् गुणोघो हृदये च हारति
प्रभुस्तवैवात्र पदप्रसन्नता ।। 21 ।। व्यपास्य संसारविकारविप्लवा
नमन्दमानन्दपदं दधास्यतः । भवोद्भवोपप्लवविप्लुतात्मनो
मनः समाघानविधि विधेहि मे ।। 22 ।। त एव वा भगवन् विकल्पना
निरस्य साम्यामृतनित्यशीतलाः । नासाग्रविन्यस्तदृशः स्मरन्ति ते
पदाम्बुजं ये हृदयाम्बुजे निजे ।। 23 ।। नो शास्त्रार्थे प्रपरति मतिर्नो तपस्सु प्रयत्नो
नात्मध्याने धृतिरनुभवो नैव योगप्रयोगे ।। नाप्युत्साहः प्रथमजिन मे धर्मकृत्येऽपरस्मि
नीहे मुक्तिं तदपि तव यत्तत्र भक्तिः प्रयोक्त्री ।। 24 ।। कृतार्थितमनोरथः सकलवर्णसद्वर्णनः
स सोममुनिसुन्दरत्रिदशवृन्दवन्द्यक्रमः । स दैवकुलिको मम प्रथमतीर्थनाथः पृथू
करोत्ववितथाः प्रथाः प्रमथितापदां सम्पदाम् ।। 25 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org