________________
428 Dr. Charlotte Krause : Her Life & Literature
ग्राम्यन्मीनश्चरमजलधौ कोऽपि कर्मानुभावा
ज्जैनाकारं झषमपि समालोक्य बुद्धस्तु चित्रम् ।। 21 11 यद्वत्पूर्णं पृथुतरनदे सञ्चरन्निन्दुबिम्बं
कूर्मोऽपश्यत्पवनदलितोद्दामसेवालबन्धे ।
कर्मोऽत्कृष्टस्थितिविघटनेऽनन्तकालात्तथाहं
त्वामद्राक्षं जिन पुनरयं भाग्यलभ्यो हि योगः ।। 22 II आज्ञायां ते विमुखमनसां भूरिकर्मावृतानां
भूयोऽपि त्वं भवसि भविनां नाथ दृष्टोऽप्यदृष्टः । आयुर्वेदी व्यपनयति किं रोगमुग्रं जनानां
निर्बुद्धीनामवगणयतामुक्तभैषज्यजातम् ।। 23 11 दुःखानन्त्यं त्रिजगति मया योनिलक्षेषु सेहे
भ्रामं भ्रामं प्रतिपदमविश्रान्ति धर्मं विना ते । किं पाथेय दृढतरमृते दीर्घमध्वानमाप्तः
स्यादध्वन्यः क्वचिदपि सुखी क्षुत्पिपासाभिभूतः ।। 24 || मिथ्यात्वाद्यैर्बहुभवभवाभ्यासपुष्टैः प्रमादैः
संसारान्तर्न सुखकणिकाः काश्चनापं कदापि ।
सञ्जायन्ते न खलु निहितैः कोद्रवैः क्षेत्रमध्ये
शालिस्तम्बा रुचिरकणिशश्रेणिसम्पत्तिमन्तः ।। 25 || मोक्षोपायं भगवदुदितं भावतो ये प्रपन्नाः
प्रत्यासन्नीभवति भविनां निवृतिर्नाथ तेषाम् । पारे पाथोनिधिगुरुतराच्छिद्रबोहित्थमध्या
11
सीना केचिज्जिगमिषुजनाः स्युर्न गन्तुं समर्थाः ।। 26 देवानादिर्निखिलभविनां कर्मराशिस्त्वदुक्ता
ऽनुष्ठानस्याभ्यसनविधिना द्रागदनीध्वस्यतेऽसौ ।
स्वर्णान्नाना भवति न हि किं वह्नियोगेन सद्यो -
ऽलोलीभावस्थितिरपि मलो मार्त्तिकः सर्व एव ।। 27 || लब्धे धर्मे नवशिवगतिं प्रापुरन्तर्मुहूर्त्तात्
क्लेशैर्मुक्ता भविकनिवहाः साम्यपीयूषतुष्टाः ।
गेहस्यान्तर्भवति तिमिराकीर्णवस्तूपलम्भः
किं नो पुंसां विलसति सुखात्सर्वतो दीप्रदीपे ।। 28 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org