________________
Siddhasena Divākara and Vikramaditya
131
निर्मूलोच्छिन्नमूला भुजपरिघपरिस्पन्ददृप्तैनरेन्द्रैः
संक्षिप्तश्रीविताना मृगपतिपतिभिः शत्रुदेशाः क्रियन्ते । किं त्वेतद्राजवृत्तं स्वरुचिपरिचयः शक्तिसम्पन्नतेयं
__ भङ्क्त्वा यच्छत्रुवंशानुचितशतगुणान् राष्ट्रलक्ष्म्या करोषि ।। १४ ॥ सर्वेऽप्येकमुखा गुणा गुणपतिं मानं विना निर्गुणा
इत्येवं गुणवत्सलैर्नृपतिभिर्मानः परिष्वज्यते । नान्यश्चैष तवापि किं च भवता लब्धास्पदस्तेष्वसौ
मत्तेनेव गजेन कोमलतरुर्निर्मूलमुत्खन्यते ॥ १५ ॥ यत्प्राप्नोति यशस्तव क्षितिपते भ्रूभेदमुत्पादयन्
किं तत्त्वच्चरणोपसन्नमुकुटः प्राप्नोति कश्चिन्नृपः । इत्येवं कुरुते स वल्लभयशास्त्वच्छासनातिक्रम
___ दर्पात्सूचितसन्मुखो न हि मृगः सिंहस्य न ख्याप्यते ॥ १६ ॥ प्रसादयति निम्नगाः कलुषिताम्भसः प्रावृषा
पुनर्नवसुखं करोति कुमुदैः सरः सङ्गमम् । विघाटयति दिङ्मुखान्यवपुनाति चन्द्रप्रभां
तथापि च दुरात्मनां शरदरोचका त्वविषाम् ।। १७ ।। न वेद्मि कथमप्ययं सुररहस्यभेदः कृत
स्त्वया युधि हतः परं पदमुपैति विष्णोर्यथा । अतः प्रणयसंसृतामविगणय्य लक्ष्मीमसौ
करोति तव सायकक्षममुरः सिषित्सुर्नृपः ।। १८ ।।
St. 14. Sragdhara-L.1 : निम - P;-स्तला - P; परिध - P; - हस्तै-A;
L. 2 : शक्र - P, A; L. 4 : क्रवं - P, A. St. 15. Sardalavikridita - L. 1 : सर्वोs A; L. 2 : परित्यज्यते Bh, P, A,
_corrected as per an oral suggestion of Dr. H. R. Diwekar, Controlling Officer, Scindia Oriental Institue, Ujjain. L. 3 :
- श्चैव Bh; लब्ध्वा - A; L.4 : गतेन A. St. 16. Sardālavikridita-L. 1 :- भू - P; L.3: त्वच्चा -A, P, Bh; L.
4 : दोस्तर्वित – P, दृस्तिर्वित - A, दर्पासूचित – Bh; व्याप्यते P. St. 17. Prthvi-L. 2 : मूर्ख P; L. 3: – ग्मु A; L.4 :- कस्तद्विषाम् – Bh,
P, कस्तद्वि A. St. 18. Prthvi - L.4 : सायक: Bh; शिखि – A; - नूप Bh.
Jain Education International
For Private & Persorial Use Only
www.jainelibrary.org