________________
"आदत्यादयवलामारभ्य षष्टिनाडिका | या तिथिः सा तु शुद्धा स्यात् सास्वेष विधिः स्मृतः॥"
तिथिनिर्णयः
विद्धा तु त्रिविधा-खो दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम्' । विद्धा तिथिलक्षणमित्यर्थः । खर्वः साम्यम् | दर्पो वृद्धिः। हिंसा क्षयः । पैठीनसिः-पक्षद्वयेपि तिथयस्तिथिं पूर्वा तथोत्तराम् । त्रिभिर्मुहूर्तविद्धयन्ति सामान्योऽयं विधिः स्मृतः ।।
चतुर्दशी पश्चमी च तथा च दशमी तिथिः । पूर्वी तिथिं दूषयति त्रिभिरेव मुहूतकैः॥ (यत्तु)-द्वादशनाडीभिर्दिक्पश्चदशभिस्तथा । भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिम् ।।
सर्वप्रकारवेधोऽयमुपवासस्य दूषकः । अरुणोदयवेधस्तु वैष्णवेषु प्रकीर्तितः ॥ इति । एवं च तिथिहासवृद्धिहेतुकपूर्वोत्तरतिथिवेधवशादुभयदिने तत्तिथिलाभे सन्देहात् तत्तिथिकृत्यानिवृत्यापत्तिरावृत्यापत्तिा मा भूदित्यसन्दिग्धानुष्ठानसिद्धयर्थनिर्णयजिज्ञासायामाहस्कन्दपुराणे-दिवारात्रिव्रतं यच्च एकस्यां च तिथौ स्मृतम् । तस्यामुभयगामिन्यां कुर्यादेवं व्रतं व्रती ।।
कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः । तया कर्माणि कुर्वीत हासवृद्धी न कारणम् ।। माहेश्वरे-व्याप्नोति कर्मकालं या तिथिर्भश्च (नक्षत्रश्च) दिनद्वयम् । युग्मवाक्येन निर्णीय ग्राह्या पूर्वा परापि वा।। युग्मवाक्यं यथा गृह्यपरिशिष्टकात्यायनः-युग्माग्निक्रतुभूतानां षण्मुन्योर्वसुरन्ध्रयोः । रुद्रेण द्वादशी युक्ता चतुर्दश्याथ पूर्णिमा |
प्रतिपदा त्वमावास्या तिथ्योयुग्मं महाफलम् । एतद्वधस्तं महाघोरं हन्ति पुण्यं पुराकृतम् ।। तिथ्योर्युग्ममिति सर्वत्राभिसंबध्यते । तेन द्वितीयातृतीययोर्युग्मं मान्यम् । एवं सर्वत्र । तथा च द्वितीया तृतीयामिश्रा ग्राह्या । तृतीयाऽपि द्वितीयामिश्रा ग्राह्या । एवमग्रेपि तिथ्यन्तरसाहित्येनं तत्तत्तिथिग्रहणं न तु तिथ्य
न्तरकार्ये तिथ्यन्तरविधिः व्रतनिमित्ततिथिबाधे गौरवात् । न वा युग्माख्यस्यैकस्यैव मिलितस्य विधिः, तादृशकालाJain Education International
For Private & Personal Use Only
www.jainelibrary.org