________________
तिथिनिर्णयः
कलनं = लयहेतुः ।
विष्णुपुराणे-य समर्था जगत्यस्मिन् सृष्टिसंहारकारिणः । तेऽपि कालेन लीयन्ते कालो हि बलवत्तरः ॥ यत्त हेमाद्रिधृत स्कन्दपुराणे -
Trisara देव प्रोक्ता महाकला । संस्थिता परमा माया देहिनां देहधारिणी ॥
अमादिपौर्णमास्यन्ता या एव शशिनः कलाः । तिथयस्ताः समाख्याताः षोडशैव वरानने ॥
गोभिल:- सूर्याचन्द्रमसोर्यः परस्सन्निकर्षः साऽमावास्येति परः सन्निकर्षश्च उपर्यधो भावापन्न समसूत्रपातन्यायेन राश्येकांशावच्छेदेन सहावस्थानरूपः । तथा च अमावास्याघटकतादृश सहावस्थानयुक्तार्कमण्डलाच्चन्द्रमण्डलस्य राशिद्वादशांशभोगात्मकनिर्गमरूपवियोगेन शुक्लायाः प्रतिपदादितत्तत्तिरुत्पत्तिः । तथा च सूर्यसिद्धान्ते-अर्काद्विनिःसृतः प्राची यद्यात्यहरहः शशी । भागैर्द्वादशभिस्तत् स्यात् तिथिश्चान्द्रमसं दिनम् ॥ विष्णुधर्मोत्तरेऽपि - त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते । इति ।
एवं सूर्याचन्द्रमसोर्गः परो विप्रकर्षः सा पौर्णमासीति -- गोभिलः । परमवियोगानन्तरमर्कमण्डलप्रवेशाय चन्द्रमण्डलस्य राशिद्वादशांशद्वादशांशभोगात्मकप्रवेशरूपसन्निकर्षेण कृष्णायास्तत्तत्तिथेश्चोत्पत्तिरिति तदपि तिथिपदशक्यतावच्छेदके उपलक्षणतयोपयुज्यमानचन्द्रमण्डलकलारम्भाद्यनुगुणक्रियाप्रचयत्वाभिप्रायेणेति बोध्यम् ।
षट्त्रिंशम्मतम् - तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण हि । चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ॥ पक्षत्याद्यास्तु तिथयः क्रमात् पञ्चदशस्मृताः । दर्शान्ताः कृष्णपक्षे ताः पूर्णिमान्ताश्च शुक्लके ॥ पक्षतिः = प्रतिपत् । सा तिथिर्द्विविधा शुद्धा विद्धा चेति । शुद्धामाह सूर्यसिद्धान्ते—
“आदित्योदय वेलामारभ्य षष्टिनाडिका । या तिथिः सा तु शुद्धा स्यात् सर्वास्वेष विधिः स्मृतः ॥”
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org