________________
तिथिनिर्णयः इति विष्णुधर्मोत्तरीयस्वेन लिखितं वचनं यदि प्रमाणं तर्हि एकादश्युपक्रमेभुञ्जन् गोमांसभक्षस्य पापमाप्नोति मानवः । यो भुङ्क्ते नीरुजः सोऽथ प्रेतश्चाण्डालतां ब्रजेत् ॥
इत्यादिभोजननिषेधार्थवादिकवचनवत् व्रतनित्यत्वावधारणार्थम् । भोजननिषेधमुखेनोपवासमेवाभिधत्ते वा, न तु पारणानिषेधार्थम् । “तिथिभान्ते च पारणम्" इति सामान्यवचनेनैवाष्टम्यान्तदप्राप्तेरिति ।
आश्विनशुक्ला चाष्टमी निशापूजायां महानिशाव्यापिनी ग्राह्या | "कर्मणो यस्ये"त्यादिस्मृतेः । उभयदिने 'महानिशाव्याप्तौ परा ग्राह्या नवमीयोगप्राशस्त्यबलात् । यत्र पूर्वदिने एव महानिशाव्यापिनी नोत्तरत्र 'तत्र' पूर्वदिने सप्तमीयुतैव । ग्राह्या, यदाह,विश्वरूपनिबन्धे
महाष्टम्याश्विने मासि शुक्ला कल्याणकारिणी । सप्तम्या संयुता कार्या मूलेन तु विशेषतः॥ महाष्टम्यां भगवती भद्रायामपि पूजिता। ददाति चायुरारोग्यं यतो भद्रास्वरूपिणी ।।
कुलं पुत्रं धनं धान्यं राज्यमायुस्तथैव च । प्रथमा चाष्टमी पूज्या यः काक्षति सदा शुभम् ।। उपवासवते तदयव्यापिनी ग्राह्या यदाह,
विष्णुधर्मोत्तरीये-अष्टम्या नवमीयुक्ता नवम्या चाष्टमीयुता । अर्धनारीश्वरप्राया उमामाहेश्वरी तिथिः ॥ इति । एकादश्यष्टमीत्यादिपैठीनसिस्मृतेश्च । स्मृत्यन्तरेऽपि
सप्तम्या पाष्टमीयुक्ता नवम्या चाष्टमीयुता । सर्वेषु व्रत कल्पेषु अष्टमी परतः शुभा ।। इति । तथा-शरन्महाष्टमी पूज्या नवमी संयुता सदा । सप्तमी संयुता त्याज्या शोकसन्तप्तकारिणी ॥
जम्भेन सप्तमीयुक्ता पूजिता च महाष्टमी । इन्द्रेण निहितो जम्भस्तस्माद् दानवपुङ्गवः ।। तस्मात् सर्वप्रयत्नेन सप्तमीसहिताष्टमी | वर्जनीया हि मनुजैरात्मनः शुभकाक्षिभिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org