________________
तिथिनिर्णयः चतुर्थन्तु हेमाद्रधनुगृहीतं कृष्णजन्माष्टमीव्रतम् तत्र रोहिणीयोगः फलातिशयार्थ एव नात्यावश्यक इति द्वितीयस्माद्रोहिण्यष्टमीव्रताद्भेदः । निशीथे पूजाद्यभिधानानिशीथव्यापिनी ग्राह्येति । तृतीयस्माद् भेद इति चतुर्थ कृष्णजन्माष्टमीव्रतमिति ।। ४ ॥
पूर्वोक्तस्मृतीनां यथायथमुक्तचतुर्विधव्रतेषूद्देश्यतावच्छेदकाक्रान्ततत्तद्वत परत्वेन विरोधाभावोऽनुसन्धेय इति ।। आश्विनकृष्णाष्टमी लक्ष्मीव्रते चन्द्रोदयव्यापिनी ग्राह्या । तथाहि
स्मृतिः-पूर्वी वा परविद्धा वा ग्राह्या चन्द्रोदये सदा । त्रिमुहर्तापि सा पज्या परतश्चोर्धगामिनी ।। तथा--लक्ष्मीव्रतञ्चाभ्युदिते शशाङ्के यत्राष्टमी चाश्विन कृष्णपक्षे ।
___ यत्रोदयं वै कुरुते दिनेशस्तदा भवेज्जीवितपुत्रिकाख्या ।। इति ।। जीवितपुत्रिकावते प्रदोषव्यापिनी ग्राह्या । यदाह
भविष्ये ईषेमास्यसिते पक्षे चाप्रमीया तिथिर्मवेत । पवसौभाग्यदा खीणां ख्याता सा जीवपत्रिक शालिवाहनराजस्य पुत्रो जीमूतवाहनः । तस्यां पूज्यः स नारीभिः पुत्रसौभाग्यलिप्सया ॥ प्रदोषसमये स्त्रीभिः पूज्यो जामूतवाहनः । पुष्करिणीं विधायाथ प्राङ्गणे चतुरनिकाम् ।। इति ।
उभयदिने प्रदोषव्याप्तौ परा ग्राह्या, उदयव्याप्त्यनुरोधात् , तिथ्यन्ते पूर्वाह्न पारणानुरोधाच्च, उपवासद्वयापत्यनुरोधाच्च । यत्र च नैकस्मिन्नपि वासरे प्रदोषव्याप्तिस्तत्रापि परैव । “यत्रोदयं वै कुरुते दिनेशः” इत्यायुक्तपरमानन्दठक्करवतस्मृतेः । यत्र पूर्वदिने प्रदोषव्याप्तिन्नोंत्तरत्र प्रदोषव्याप्तिस्तत्र पूर्वदिने एव । तथाहिविष्णुधर्मोत्तरे-पूर्वेधरपरेधुर्वा प्रदोषे यत्र चाष्टमी । तत्र पूज्यः स नारीभी राजा जीमूतवाहनः ।।
___ आश्विनस्याऽसिताष्टम्यां याः स्त्रियोऽन्नश्च भुञ्जते । मृतवत्सा भवेयुस्ता विधवा दुर्भगा ध्रुवम् ॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org