________________
२५०
वज्जालग्ग
७२९. परसुच्छेयपहरणेण निहसणे नेय उज्झिया पयई । चंदण संनयसीसो तेण तुमं वंदए लोओ ॥२॥
परशुच्छेदप्रहरणेन निघर्षणेन नैवोज्झिता प्रकृतिः । चन्दन संनतशीर्षस्तेन त्वां वन्दते लोकः ॥
*७३०. उत्तमकुलेसु जम्मं तुह चंदण तरुवराण मज्झमि । दुज्जीहाण खलाण य निच्चं चिय तेण अणुरत्तो ॥ ३ ॥ उत्तमकुलेषु जन्म तव चन्दन तरुवराणां मध्ये । द्विजिह्वानां खलानां च नित्यमेव तेनानुरक्तः ॥ ७३१. एक्को चिय दोसो तारिसस्स चंदणदुमस्स विहिघडिओ । जीसे दुभुयंगा खणं पि पासं न मेल्लंति ॥४॥ एक एव दोषस्तादृशस्य चन्दनद्रुमस्य विधिघटितः । यस्य दुष्टभुजङ्गाः क्षणमपि पार्श्व न मुञ्चन्ति ॥
७३२. बहुतरुवराण मज्झे चंदणविडवो भुयंगदोसेण । छिज्झइ निरावराहो साहु व्व असाहुसंगेण ॥ ५ ॥ बहुतरुवराणां मध्ये चन्दनविटपो भुजङ्गदोषेण । छिद्यते निरपराधः साधुरिवासाधुसङ्गेन ॥
८५.
वडवज्जा (वटपद्धतिः )
७३३. जाओ सि कीस पंथे अहवा जाओ सि कीस फलिओ सि । अह फलिओ सि महादुम ता सउणविडंबणं सहसु ॥ १ ॥ जातोऽसि कस्मात्पथि, अथवा जातोऽसि कस्मात्फलितोऽसि । अथ फलितोऽसि महाद्रुम तच्छकुनविडम्बनां सहस्व ॥
७३४. नीरस- करीर - खरखइरसंकुले विसमसमिमरुद्देसे । का होज्ज गई पहियाण जं सि वडपायव न होंतो ॥२॥ नीरसकरीर-खर- खदिरसंकुले विषमशमोमरुदेशे ।
का भवेद्गतिः पथिकानां यदसि वटपादप न भवन् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org