________________
१०२ अलंकारचिन्तामणिः
[३३१४श्लोकयमकः। द्वौ श्लोकावेतो पृथगर्थो द्रष्टव्यो। स्वयं स्वतः। शमयितुनाशयितुम् । नाशं विनाशं कर्म । विदित्वा ज्ञात्वा । सन्नतः प्रणतः। तु अत्यर्थम् । ते तुभ्यम् । चिराय नित्याय अक्षयपदनिमित्तं' वा । भवते प्रभवते । पीड्यं सविघातं न पीडयमपीड्यं महः तेजः अपीड्यमहसी रुक् तया उरुः महान् तस्मै, अपोड्यमहाश्चासौ उरुगुरुरूपश्च इति वा । अशुचे अशोकार्थम् । ___ अन्वयोऽयम् -अशोकार्थं नाशं शमयितु विदित्वा सन्साधु भो जिन, अपीड्यमहोरुगुरवे प्रभवते अप्रतिहतकेवलज्ञानदीप्तये चिराय तुभ्यम् अत्यर्थ स्वयं नतः । स्वयं शमयितु नाऽशं विदित्वा सन्नतः स्तुते । चिगय भवतेऽपीड्यमहोरुगुरवे शुचे ।। स्वयं शोभनपुण्यम् । शं सुखम् । अयितुगन्तुम् । ना पुरुषः अशं दुःखं विद् बोधवान् इत्वा गत्वा अतिक्रम्य । सन् विद्यमानः । अतः अस्मात् कारणात् स्तुते स्तुतिविषये। चिराय चिरेण अनन्तकालेन । अथवा अचिरेण तत्क्षणात् । भवते प्राप्नुते भवेः प्राप्ताविणिरिति अमोघवृत्तौ उक्तत्वात् आत्मनेपदम् । अपि संभावने। हे ईड्य पूज्य । महती उर्वी गौर्वाणी येस्यासौ महोरुगुः । स एव 'रविः । तस्य संबोधनम् । शुचे शुद्ध । एतदुक्तं भवति । ईड्य शुचे महोरुगुरवे । भो जिन । स्तुते स्तुतिविषये सन् , अतएव अशम् इत्वा, शं 'गन्तुविद् ना पुमान् चिराय स्वयमपि पुण्यमपि भवते प्राप्नुते । श्लोकस्य 'संपूर्णावृत्या संयुतत्वाद्यभावः।
यह श्लोक यमक या महायमक है। ये दोनों श्लोक भिन्न-भिन्न अर्थवाले हैं। यहाँ सम्पूर्ण श्लोकको आवृत्ति है।
गद्यार्थ-स्वयं = अपने । 'शमयितुम्' शान्त या नाश करने के लिए। 'नाशम्' विनाश कर्म 'विदित्वा' = जानकर । 'सन्नतः' = अच्छी तरहसे विनीत, सुविनीत । 'तु' = अत्यधिक, 'ते' = तेरे लिए । 'चिराय' =चिरकालके लिए, शाश्वत अथवा अविनाशी पदके लिए 'भवते' = समर्थके लिए या अपने लिए । 'अपीड्य महसोरुगुरवे' = अवाध्य तेजको प्रभासे अतिश्रेष्ठत्वके लिए। 'अशुचे'-शोकाभावके लिए अथवा अशोकार्थम् । 'भवते'-/भूधातुसे निष्पन्न आत्मनेपदका रूप है । 'भवेः प्राप्ताविणिरिति अमोघवृत्ती उक्तत्वात् आत्मनेपदम् । 'अपि'- संभावना अर्थमें प्रयुक्त है । 'ईड्य-पूज्य । महती वाणी जिसकी है, वह 'महोरुगुः' कहलाता है । अर्थात् दिव्यध्वनि । यही सूर्य रूप हैदिव्यध्वनि द्वारा अज्ञानान्धकारका विनाश होता है । 'शुचे' = शुद्ध ।
१. अक्षयपदविनिमित्तम्-क। २. तेजमहस्तेजः-ख । ३. अपीड्यमनसो रुक-ख । ४. अपीड्यमहाँश्च अरुगुरुरूपश्चासाविति वा ख । ५. ख प्रती "भो जिन" इति पदे न स्तः। ६. स्तुतये-ख । ७. भुवे:-क तथा ख । ८. महति उवि-ख । ९. यस्या:सा-ख । १०. व रविः-ख । ११. गत्वा-ख । १२. सम्पूर्णवृत्याऽसंयुतत्वाद्यभावः-क ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org