SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ || कल्याण कलिका. खं०२ ॥ ॥ स्मरणस्तोत्राणि ॥ ।। ५१८ ॥ शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवतु लोकः ॥२॥ अहं गोवालयमाया, सिवादेवी तुम्ह नयरनिवासिनी । अम्ह सिवं तुम्ह सिवं, असिवोवसमं सिवं भवतु स्वाहा ॥३॥ उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥४॥ सर्वमङ्गलमाङ्गल्य, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥५॥ ७-लघुशान्ति स्तवः शान्तिं शान्तिनिशान्तं, शान्तं शान्ताऽशिवं नमस्कृत्य । स्तोतुः शान्तिनिमित्तं, मन्त्रपदैः शान्तये स्तौमि ॥१॥ ओमिति निश्चितवचसे, नमो नमो भगवतेऽर्हते पूजाम् । शान्तिजिनाय जयवते, यशस्विने स्वामिने दमिनाम् ॥२॥ सकलातिशेषकमहा-संपत्ति समन्विताय शस्याय । त्रैलोक्यपूजिताय च नमो नमः शान्तिदेवाय ॥३॥ सर्वामरसुसमूह-स्वामिकसंपूजिताय न जिताय । भुवनजन पालनोद्यत-तमाय सततं नमस्तस्मै ॥४॥ सर्वरितौघनाशन-कराय सर्वाशिवप्रशमनाय । दुष्टग्रहभूतपिशाच-शाकिनीनां प्रमथनाय ॥५॥ यस्येति नाममन्त्र-प्रधानवाक्योपयोगकृततोषा । विजया कुरुते जनहित - मिति च नुता नमत तं शान्तिम् ॥६।। भवतु नमस्ते भगवति ! विजये ! सुजये ! परापरैरजिते!। अपराजिते! जगत्यां जयतीति जयावहे भवति ॥७॥ सर्वस्यापि च सङ्घस्य, भद्रकल्याणमङ्गलप्रददे! । साधूनां च सदा शिव-सुतुष्टिपुष्टिप्रदे ! जीयाः ॥८॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy