SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ।। ।। ५१७ ।। Jain Education International साधुसाध्वीश्रावकश्राविकाणां रोगोपसर्गव्याधिदुखदुर्भिक्षदौर्मनस्योपशमनाय शान्तिर्भवतु । ॐ तुष्टिपुष्टिऋद्धिवृद्धिमाङ्गल्योत्सवाः सदा प्रादुर्भूतानि पापानि शाम्यन्तु दुरितानि, शत्रवः पराङ्मुखा भवन्तु स्वाहा । श्रीमते शान्तिनाथाय नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीश मुकुटाभ्यर्चिताये ||१|| शान्तिः शान्तिकरः श्रीमान्, शान्तिं दिशतु मे गुरुः । शान्तिरेव सदा तेषां येषां शान्तिर्गृहे गृहे ||२|| उन्मृष्टरिष्टदुष्ट, ग्रहगतिदुःस्वप्नदुर्निमित्तादि । संपादित - हितसंपन्नामग्रहणं जयति शान्तेः ॥३॥ श्रीसङ्घ-जगज्जनपद-राज्याधिपराज्यसन्निवेशानाम् । गोष्ठिकपुरमुख्याणां व्याहरणैर्व्याहरेच्छान्तिम् ||४|| श्री श्रमणसङ्घस्य शान्तिर्भवतु, श्रीजनपदानां शान्तिर्भवतु, श्रीराज्याधिपानां शान्तिर्भवतु, श्रीराज्यसन्निवेशानां शान्तिर्भवतु, श्रीगोष्ठिकानां शान्तिर्भवतु, श्रीपुरमुख्याणां शान्तिर्भवतु, श्रीपौरजनस्य शान्तिर्भवतु, श्रीब्रह्मलोकस्य शान्तिर्भवतु ॐ स्वाहा ॐ स्वाहा ॐ श्रीपार्श्वनाथाय स्वाहा । - एषा शान्तिः प्रतिष्ठायात्रास्नात्राद्यवसानेषु, शान्तिकलशं गृहीत्वा कुङ्कुमचन्दनकर्पूरागुरुधूपवासकुसुमाञ्जलिसमेतः स्नात्रचतुष्किकायां श्रीसंघसमेतः शुचि शुचि वपुः पुष्पवस्त्रचन्दनाभरणालङ्कृतः पुष्पमालां कण्ठे कृत्वा, शान्तिमुद्घोषयित्वा शान्तिपानीयं मस्तके दातव्यमिति । नृत्यन्ति नित्यं मणिपुष्पवर्षं, सृजन्ति गायन्ति च मङ्गलानि । स्तोत्राणि गोत्राणि पठन्ति मन्त्रान्, कल्याणभाजो हि जिनाभिषेके ॥ १ ॥ For Private & Personal Use Only ॥ स्मरण स्तोत्राणि ॥ ॥ ५१७ ॥ www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy