SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ SMA || स्मरणबास्तोत्राणि ॥ भव्यानां कृतसिद्धे! निवृतिनिर्वाणजननि ! सत्त्वानाम् । अभयप्रदाननिरते ! नमोऽस्तु स्वस्तिप्रदे तुभ्यम् ।।९।। भक्तानां जन्तूनां, शुभावहे ! नित्यमुद्यते देवि ! । सम्यग्दृष्टीनां धृति-रति-मति-बुद्धि-प्रदानाय ॥१०॥ जिनशासननिरतानां, शान्तिनतानां च जगति जनतानाम् । श्री-संपत्कीर्ति-यशो-बर्द्धनि! जयदेवि ! विजयस्व ॥११॥ सलिलानल-विष-विषधर-दुष्टग्रह-राज-रोग-रणभयतः । राक्षस-रिपुगण -मारि-चौरेति-श्वापदादिभ्यः ॥१२॥ अथ रक्ष रक्ष सुशिवं, कुरु कुरु शान्तिं च कुरु कुरु सदेति । तुष्टिं कुरु कुरु पुष्टिं, कुरु कुरु स्वस्तिं च कुरु कुरु त्वम् ॥१३॥ भगवति ! गुणति! शिवशान्ति-तुष्टि-पुष्टि-स्वस्तीह कुरु कुरु जनानाम् । ओमिति नमो नमो हाँ ह्रीं हूँ हूः यः क्षः ह्रीं फट् फट् स्वाहा ॥१४॥ एवं यन्नामाक्षर-पुरस्सरं संस्तुता जयादेवी । कुरुते शान्तिं नमतां, नमो नमः शान्तये तस्मै ॥१५॥ इति पूर्वसूरिदर्शित-मन्त्रपदविदर्भितः स्तवः शान्तेः । सलिलादिभयविनाशी, शान्त्यादिकरश्च भक्तिमताम् ॥१६॥ यश्चैनं पठति सदा, शृणोति भावयति वा यथायोगं । स हि शान्तिपदं यायात्, सूरिः श्रीमानदेवश्च ॥१७॥ उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥१८॥ For Private & Personal Use Only ॥ ५१९ ।। 'www.jainelibrary.org Jain Education Internationa
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy