________________
यान
॥ स्तुति
।। कल्याण
कलिका. खं० २ ॥
मंत्राः ।।
ज्वरभरपरितापोद्रक्तपित्तातिवात-क्षतधुततनुनिर्यदबुबुदच्छिरौद्राः । अपि घनरसपूतिक्लिन्नभिन्नास्थिमांसा-स्त्वदभिमुखमुपेता नावसीदन्ति सन्तः ।।३।। श्रुतिपथगतमुच्चै म यस्याः पवित्रं, विषमतमविषति नाशयत्येव सद्यः । त्रिभुवनविनता सा संमुखीभूय देवी, वितरतु कुकुल्ला संपदं मे विशालाम् ॥४॥ ज्वलनजलमृगेन्द्रोद्वाससंग्रामशत्रु-प्रभृतिकमपयाति त्वद्गतध्यानमात्रात् । घृततनयशरीरारोग्यसौभाग्यभाग्या-दिकमुपचयमेत्यभ्यर्थनात्तावकीनात् ॥५॥ कियति महति दूरे त्वन्नतानां श्रुतश्रीः, कथमिव दुरवापा तैर्जगज्जैत्रलक्ष्मीः। असुलभमिह किं वा वस्तु तेषां समस्तं, त्रिभुवनजननि! त्वं वीक्षसे यान् प्रसन्ना ॥६॥ सुभटकरतले त्वं शस्त्ररूपासि शक्ति-स्त्वमवनिपतिपूच्चैर्देविमन्त्रादिशक्तिः। किमपरमनिलादौ त्वं महाप्राणशक्तिः, सकलभुवनपूज्या त्वं च जैनेन्द्रशक्तिः ॥७॥ प्रतिविषयमजस्त्रं स्वेच्छयागच्छदेतत्, पवनविजययोगात् संनिरुध्य स्वचित्तम्। यदिह किमपि सन्तः संततं ध्याम पश्य-न्त्यवितथमयमुच्चैर्देवि युष्मत्प्रसादः ॥८॥ सकलकरणरोधाद् ध्यानलीनस्य पुंसः, स्फुरसि मनसि यस्य त्वं महोद्योतरूपा । सपदि विदलयन्ती तस्य जाड्यान्धकारं, समुदयति समन्तात् केवलज्ञानलक्ष्मीः ॥९॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org