________________
॥ चतुर्वि
|| कल्याण
कलिका. खं० २ ॥
शतिजिनस्तुतयः ।।
॥ ४८२ ।।
(७) दुरितमिभगमोऽहं-पूर्विकार्यक्रमोऽहंत्यसमतभशमोऽहंकारजिद्यः समोहम् ।
कृतकरणदमो हन्तास्तलोभं नुमोऽहं-मतिहृतमसमोहं तं सुपार्श्व तमोहम् ॥७॥ (८) समतृणमणिभाव ! ज्ञातनिःशेषभाव ! प्रहतसकलभावप्रत्यनीकप्रभाव !।
कृतमदपरिभाव ! श्रीश ! चन्द्रप्रभाव ! द्विजपतितनुभाव ! त्यक्तकामस्वभाव ! ॥८॥ (९) जिनपति सुविधे ! यः स्यात्त्वदाज्ञाविधेय-प्रवण इह विधेयः प्रस्फुरद्भागधेय !।
त्रिजगदनपिधेय श्लाघ ! सन्नामधेयः, श्रयति शुभविधेयस्तं लसद्रूपधेय !|९|| (१०) य इह निहतकामं मुक्तराज्यादिकामं, प्रणतसुर ! निकामं त्यक्तसद्भोग ! कामम् ।
नमति स निजकामं शीतल ! त्वां प्रकामं, श्रयतकि तमकामं सर्विका श्रीः स्वकामम् ॥१०॥ (११) विषमविशिखदोषा चारि चारप्रदोषा, प्रतिविधति सदोषाप्यस्य किं कालदोषा ।
य इह वदनदोषापार्चिषाऽक्षालिदोषा-ऽतनुकमलमदोषा श्रेयसा शस्तदोषा ॥११॥ (१२) कृतकूमतपिधानं सत्वरक्षावधानं, विहितदमविधानं सर्वलोकप्रधानम् ।
असमशमनिधानं शं जिनं संदधानं, नमत सदुपधानं वासुपूज्याभिधानम् ॥१२।। (१३) भवदवजलवाहः कर्मकुम्भाद्यवाहः, शिवपुरपथवाहस्त्यक्तलोक प्रवाहः ।
विमल ! जय सुवाहः सिद्धिकान्ताविवाहः, शमितकरणबाहः शान्ततृड्हव्यवाहः ॥१३॥ (१४) जिनवर ! विनयेन श्रीश ! शुद्धाशयेन ! प्रवरतरनयेन त्वं नतोऽनन्त ! येन ।
॥ ४८२ ।।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International