________________
॥ कल्याणकलिका. खं० २ ॥
।। चतुर्विंशतिजिनस्तुतयः ॥
।। ४८१ ।।
जक्खंबासुयखित्तदेविपमुहा सब्वे हि सब्वायरा, वेयावच्चकरा सुरा भयहरा ते इंतु मे निच्छयं ॥२८॥
॥ श्रीधर्मघोषसूरिविरचिताः श्रीचतुर्विंशतिजिन स्तुतयः ।। (१) जय वृषभ जिनाभिष्ट्रयसे निम्ननाभि-र्जडिमरविसनाभिर्यः सुपर्वाङ्गनाभिः ।।
तम इह किल नाभिक्षोणिभृत्सूनुनाऽभिद्रुतभुवनमनाभि क्षान्तिसंपत्कुनाभिः ॥१॥ (२) प्रकटितवृषरूप ! त्यक्तनिःशेषरूप-प्रभृतिविषयरुप ! ज्ञात विश्वस्वरुप !।
जय चिरमसरूप ! पापपङ्काम्बुरूप ! त्वमजित ! निजरूपप्रास्तसज्जातरुप ! ॥२॥ (३) जय मदगजवारिः संभवान्तर्भवारि, व्रजभिदिह तवारिश्रीन केनाप्यवारि ।
यदधिकृतभवारिसंसनः श्रीभवारिः, प्रशमशिखरिवारि प्राणमद्दानवारिः ॥३॥ (४) अकृतशुभनिवारं योऽत्र रागादिवारं, सुविनतमघवारं संवरोद्भुः सुवारम् ।
मदनदहनवारं दोलितान्तर्भवारं, नमत सपरिवारं तं जिनं सर्ववारम् ॥४॥ (५) तब जिन सुमते न प्रत्यहं तन्यते न, स्तुतिरिति सुमतेन कृत्तमोनिष्कृतेन ।
यदिह जगति तेन द्राग् मया संमतेन, ध्रुवमितदुरितेन श्रीश भाब्यं हितेन ॥५॥ (६) परिहतनृपपद्म ! श्रीजिनाधीश ! पद्मप्रभ ! सदरुणपद्म युत्तपोहंसपद्म !।
त्वदखिलभविपद्मवातसंबोधपद्म ! स्वजन ! गतविपद्मय्येतु शर्माङ्कपद्म ! ॥६॥
॥ ४८१ ।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org