________________
॥ चैत्य
॥ कल्याणकलिका. खं० २॥
|
वन्दन संदोह ॥
नयानयादिराजिता-ऽगमैर्गमैगरीयसी । प्रमाप्रमाणपूरिता, महर्षिहर्षिणी सदा ॥२॥ दयोदयोज्ज्वला सदाऽक्षयाऽक्षयामिनी विशाम् । धियोऽधियोगकारिणी, भियोऽभियोगनाशिनी ॥३॥ यदीदृशीसरस्वती न रोचते सरस्वती । जनाय ते सुवर्णिका, जगद्दशा सुवर्णिका ॥४॥ नमे न मे प्रमाणिका, नरस्य धीस्तदीदृशः । मतं मतं विपर्यय-प्रसाधनं तु धीदृशः ॥५॥ पंचभिः कुलकम् ।
।२२ श्रीनेमिजिन चैत्यवन्दनम् । (पंचचामर वृत्तम्) क्षणं निरीक्ष्य वीक्षणैः प्रतिक्षणं क्षयान्वितं, क्षण यदप्रतीक्षितं क्षमेशमण्डलैः क्षितौ । असारसंसूदुद्भवातिभीतिभागजनो यमा-श्रयेद्धिताय भक्तितस्तमानतोऽस्मि नेमिनम् ॥१॥ कुरङ्गरङ्गभङ्गभीरुताभरावभारित ! निदर्शनी भवन् दयालुताजुषां विशां धुरि । विवाहवाहवाहनावरुद्धराज्यहायक !। भवन्तमीदृशं दयालुमाश्रितोऽस्मि रक्ष माम् ॥२॥ जयाभिलाषि वाजिराजिराजिराजराजिता, ऽप्रपंच ! चामरालिशोभिपार्श्व ! पार्श्वगावन । यदूज्वलान्वयाम्बुराशिभासनाऽब्जभासुर !, विधेहि मां भवाम्बुधेस्तटानुयायिनं विभो !|॥३॥
।२३ श्रीपार्श्वजिन चैत्यवन्दनम् । (शिखरिणी वृत्तम्) सदा शुद्धामूर्तिर्मदनमदमोहादिविकला, कलाऽपूर्वा वाक्ये सतनुमदवियान्तकरणे । रणे रंगो नित्यं विततभवभावारिनिधने, धने मूर्खात्यागो वरतरसुवर्णादिनिकरे ॥१॥ करे शखाभावो जनितजनसंतापशमनो, मनोऽपूर्वध्यानस्थगितनिखिलाऽवद्यविवरम् ।
|॥ ४७५ ॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org