SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ।। कल्याण कलिका. खं० २॥ | ॥ चैत्य वन्दन संदोह ॥ ।। ४७३ ।। भवजलधिविशोषी पापवारप्रमोषी, दिशतु कुशलमीशः शान्तिनाथो मुनीशः ॥१॥ स्वह्वदि धृतभवन्तः प्रास्तरागा भवन्तः । तव नतिशुभवन्तस्ते नराः पुण्यवन्तः । अतिशयसुखसारं केवलालोकसारं, परमपदमुदारं यान्ति भव्या मुदाऽरम् ॥२॥ प्रशमरसविपुष्टा नाशिताशेषदुष्टाः, जगति जनितचित्रा पुण्यपोपैः पवित्रा । महिमजितसमुद्रा मालिनी यस्य मुद्रा, सजयति जिनशान्तिर्निर्जिंत स्वर्णकान्तिः ॥३॥ ।१७ श्रीकुन्थुनाथजिन चैत्यवन्दनम् । (कामक्रीडा वृत्तम्) संसृत्तारं विध्वस्तारं श्रीदातारं धातारं, चंचच्छोभारम्यं गम्यं योगीशानामीशानाम् । संसाराम्भोराशिं तीर्णं सौख्याकीर्णं विस्तीर्णं, वन्दे देवं कृत्यासेवं कुन्थु सार्वं सर्वज्ञम् ॥१॥ त्यक्तासारं ज्ञानोदारं विश्वोद्धारं विद्यारं, स्फूर्जयोगं मुक्तोद्योगं भासा चन्द्रं निस्तन्द्रम् । संख्यावन्तं पुण्योदन्तं की, कान्तं संशान्तं, वन्दे देवं कृत्यासेवं सौधर्मेशं धर्मेशम् ॥२॥ आयुर्विद्युयोताभं स्व-र्लीलांकीलाभामन्ते, विज्ञा विज्ञायाशु ब्रीडां कामक्रीडां संप्रोज्झय । दुःखोद्रेकच्छेदच्छेकं भक्त्युद्रेकं बिभ्राणा, देवाः सेवां यस्याऽकुर्वन् कुन्थुः कुर्यात्कल्याणं ॥३॥ ।१८ श्रीअरनाथजिन चैत्यवन्दनम् (हरिणी वृत्तम्) जनितजनतानन्दं कन्दं महोदयवीरुधा-मविरतिरतिप्रीतिप्रौढिप्रमुक्तमगुर्बुधाः । यममशरणा लब्धोत्कर्णाः शरण्यमनिन्दितं, स दिशतु शिवं देवीसूनुर्भवान्तमनिन्दितम् ॥१॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy