SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ॥ ॥ चैत्य वन्दन संदोह ॥ ॥ ४७१ ॥ चन्द्रकान्तसमशीततनुजिन-चन्द्र ! वर्त्म सुगतेर्दददमलम् । मामनल्पमतिरहितमशरणं, नाथ ! रक्ष दुरितादनिशरणम् ॥३॥ ११ श्रीश्रेयांसजिन चैत्यवंदनम् । (शालिनी वृत्तम्) स्फूर्जत्कान्तिध्वस्तसंसारतान्ति-श्वञ्चच्छीलः प्रोज्झिताऽशस्तलीलः ।। श्रीश्रेयांसः संचितान्तश्शमायः, कुर्यात्सौख्यं देववन्योऽस्तमायः ॥२॥ विद्यावल्लीवर्धने वारिवाहः, कैवल्याध्वप्रापणे शस्तवाहः । स श्रेयांसः श्रेयसां यः सुखानिः, सश्रेयान्वः संविधत्तां सुखानि ॥२॥ प्रत्यादर्श श्रेयसो दैवतस्य, बद्धं चित्तं येन पापं न तस्य । प्रत्याघातं संविधत्ते नरस्य, यस्मात् श्रेयः शालिनी भक्तिरस्य ॥३॥ १२ श्रीवासुपूज्यजिन चैत्यवन्दनम् । (स्वागता वृत्तम् ।) वासुपूज्य कृतपुण्यकृतान्त !, हेलया विजितरागकृतान्त !। योगिनोऽपि विनमन्ति भवन्तं, के त्यजेयुरथवाशुभवन्तम् ॥शा या चचाल निजनिश्चलभावात्, योगिनाथततिरप्यविभावात् । यद्वशाविजयिनं हरिसुनु, तं जघान वसुपूज्यसुसुनुः ॥२॥ स्वागताप्रभृतिबद्धनिबन्ध-स्त्वां स्तुवन्ति कवयः शुचिबन्धैः । नो तथापि गुणवर्णनकृत्ये, पारयन्ति तव वर्णनकृत्ये ॥शा १३ श्रीविभलजिन चैत्यवन्दनम् । (मन्दाक्रान्ता वृत्तम् ।) श्यामासूनो ! तववरवचः श्रेणिपीयूषधारा, तृप्तात्मानः प्रकृतिसुभगा मानवा मानधाराः । उत्पद्यन्ते विबुधभवनेषूत्तमेघूत्तमास्ते, यत्रानन्दप्रबललहरीप्रोल्लसत्सौख्यमास्ते ॥१॥ हेयाहेयप्रकटनविधौ बद्धलक्ष्यो नितान्तं, ज्ञानोद्योतैर्भुवि भविजनं बोधयन् यो नितान्तम् । निर्मुक्तात्मा शिवसुखरतिः कर्मयोगैरपीड्यः, सर्वज्ञोऽसौ जयतु विमलः सर्वदेवैरपीड्यः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy