________________
॥ कल्याण
कलिका.
खं० २ ।।
॥। ४७० ।।
Jain Education International
देवेन्द्रैः प्रकटितभक्तिरागसारैः, संसारे पुरुषवरं हि मन्यमानैः । यो ने विरतगणैश्च बद्धरागै र्योनेर्मेऽविरतगतं स संरुणद्ध ||२|| संप्राप्ते पुरमपुनर्भवाख्यमीशे, निर्नाथा विरह विषार्दिता प्रकामम् । नो चेत्तेऽमृतसमदर्शनं प्रविम्बं नो नूनं भुवि जनता प्रहर्षिणीयम् ॥ ३॥ १८ श्रीचन्द्रप्रभजिन चैत्यवन्दनम् । (ललिता वृत्तम् ।) चन्द्रप्रभं जनिविपूतसञ्जनं, चन्द्रप्रभं जनितहृष्टिमज्जनम् । देवाधिदेवविनतं स्वशक्तितो देवाधिदेवमभिनौमि भक्तितः ॥ | १ || तेजःप्रपन्नरविरूपरोचन-श्वेतः सरोजदलने विरोचनः । देयान्मति जिनपतिः सतामरं यस्या जनुर्विभवनिर्जितामरम् ||२|| लोको जहर्ष तव दर्शनागमाज्ज्ञानप्रकर्षललिताज्जिनागमात् । किं वा युजातमहसेननन्दन- मीश ! क्षमेशमहसेननन्दन ! ||३| १९ श्री सुविधिजिनचैत्यवन्दनम् । (सुमुखीवृत्तम्)
कुतुकमिदं ननु पश्यत भो ! भुवि जनचित्तसरोजमिदम् । सुविधिजिनस्य मुखेन्दुरयं कुवलयवद् विशदीकुरुते ||१|| भवति न यस्य मनो रमते, भवति नरस्य न तस्य रतिः । किमु सुरपादपपादभिदि, शमुदयमेति कदाऽप्यविदि ||२|| तव चरणांबुजबद्धरति-र्गणधरवन्मनुजः सुमतिः । भुवि जनतासु- मुखीभवति, भवभयतश्च जनानवति ॥३॥
।१० श्रीशीतलजिन चैत्यवन्दनम् । (चन्द्रवर्त्मवृत्तम्) शीतलं जिनपतिं नम जनते ! संगृहाण वरपुण्यमजनतेः । एतदर्थममरा अपि सततं पूजनं विदधते दिवि सततम् ॥१॥ पूजयन्ति जिनदैवतचरणा-नार्यलोकपथनिर्मितचरणाः । प्राणिना विधिवदादरसहितं मन्वते च भुवि तत्खलु सहितम् ||२||
For Private & Personal Use Only
॥ चैत्यवन्दन संदोह ॥
।। ४७० ।।
www.jainelibrary.org