SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. | खं०२॥का ॥ चैत्य वन्दन संदोह ॥ ash ॥ ४६९ ॥ GRES d S थील ४ श्रीअभिनन्दनजिन चैत्यवन्दनम् । (रथोद्धतावृत्तम्) संवराख्य नरराजनंदनं, देवराजविहिताभिनन्दनम् । धर्मदानजनताभिनन्दनं, भक्तितोऽस्मि विनतोऽभिनन्दनम् ॥१॥ भो जना ! विषयलुप्तचेतनै-र्भोजनादिसुखमिष्यते जनैः । तद्वदेव भवतापपीडितै-र्ज्ञानसाधनमसौ निषेव्यते ॥२॥ सेवनेन सततं जिनेशितु-र्मोहराजमदनौ प्रणेशतुः । सन्नृणां भवतु वोऽपि तद्गता, तद्भटालिरनुगैरथोद्धता ॥३॥ ५ श्रीसुमतिजिन चैत्यवन्दनम् । (दुतविलम्बितवृत्तम् ।) सुकृतवल्लरिवर्धनवारिद-प्रभमनल्पगुणस्य तवारिद !। वचनमर्तिहरं भवितारकं, भवतु मेऽयहरं विगतारकम् ॥१॥ सुमतिमेघनरेन्द्रसमुद्भव ! विहितसर्वसुरासुरमुद्भव !। अथ भवेद्धि भवान् मम तारणः, सजति चेद्भगवन् मम तारणः ॥२॥ द्रुतविलंबितसंसरणक्रम-मविरतं विदधे सगुणक्रम !। यदि रतिर्हि भवेद्भवदाश्रये, ध्रुवगतिं भगवन् ! नु तदाश्रये ॥३॥ ६ श्रीपद्मप्रभजिन-चैत्यवन्दनम् (इन्द्रवज्रा वृत्तम् ।) पद्मप्रभेऽम्भोजविशालनेत्रे, पद्मप्रभे भो दधतां सुभक्तिम् । ये न प्रकृष्टत्वमुचः कदापि, येन प्रणष्टा ननु तेऽपि दोषाः ॥१॥ नाथ ! त्वया चेक्रियते जनोऽन्यो, धर्मोपदेशैर्ननु मुक्तरागः । त्वं रागयुक्तोऽसि कथं नु यद्वा, माहात्म्यमेतत्खलु सर्ववित्त्वे ॥२॥ एकाकिनापि प्रहतास्त्वयोद्धा, मोहादयः कर्मबलिष्टयोद्धाः । स्यादिन्द्रवज्रा हतिरेकिकापि, नाशाय मौलेः कुलपर्वतादेः ॥३॥ ७ श्रीसुपार्श्वजिन-चैत्यवन्दनम् । (प्रहर्षिणी वृत्तम्) पृथ्वीजं शिवपुरसार्थवाहनाथं, चक्राणं प्रबलमनोभवप्रमाथम् । कुर्वाणः स्तुतिलवगोचरे सुनाथं, कुर्वे स्वं निजगुणलालसासनाथम् ॥१॥ For Private & Personal Use Only ENA ॥ ४६९ ॥ Jan Education Internationa www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy