________________
।। कल्याणकलिका. खं०२॥
। चैत्य
वन्दन संदोह ॥
॥ ४६८ ॥
त्रैलोक्यलोकचलनेत्रचकोर चन्द्र, वैराग्यरङ्गरसभङ्गभयास्ततन्द्रम् । संसारसिन्धुतरणायसुयानपात्रं, देवं नमामि ऋषभं प्रपवित्रगात्रम् ।।२।। येन प्रदर्शितमशेषकलाकलापं, दुर्बोधजातदुरितीघकृतापलापम् । स्मृत्वाऽधुनापि जनता निजकार्यजन्मा-दुद्धर्षणीतिहरणोऽस्तु स नाभिजन्मा ॥३॥
२ श्रीअजितनाथ चैत्यवंदनम् ॥ (त्रोटक वृत्तम्) । अजितं विदिताखिलवस्तुगणं, सगुणं वरमुक्तिवधूरमणम् । रमणीरजनीचरिकावियुतं, प्रणुत प्रणताखिलसिद्धिकृतम् ॥१॥ प्रपतन्तमवित्तिभरे मनुज-मनुजन्मकरन्तमदृष्टरुजम् । जनमानसमानसहंससम, समदृष्टितमं प्रणमाम्यसमम् ॥२॥ विहितामरदानक्सेवनक, कनकोज्वलनिर्मलविग्रहकम् । भवतोटक ! तोट्य मे दुरितं, समयोदितकर्मरजो मिलितम् ॥३॥
३ श्रीसंभवजिन चैत्यवन्दनम् । (उपजाति वृत्तम्) श्रीसंभवो निर्दलितारिसंभवो, विसंभवः प्रास्तविकारसंभवः ॥ संशभवश्रीद्धजितारि संभवः, क्षिणोतु तं योऽस्ति गदोऽरिसंभवः ॥११॥ वृथैव मन्ये विदुषां नु भारती, यया न ते प्रक्रियते बुधैः स्तुतिः । किं कल्पवृक्षोऽपि फलादिवर्जितः, फलैषिभिर्नो विबुधैर्वितर्जितः ॥२॥ न स्रग्धरा वृत्तमुखैरपि स्वयं, सदैव सावधविवर्णकः कविः । लभेत सत्कीर्तिभरं यथा स्तुवन्, भवन्तमल्पैरुपजातिवृत्तकैः ।।३।।
For Private & Personal Use Only
|| ४६८ ॥
Jan Education international
www.jainelibrary.org