________________
।। कल्याणकलिका.
॥ ४२३ ॥
श्रीशान्तिवादिवेतालीय अर्हदभिषेकविधिः ॥
तिष्ठतु तावदलङ्कृति-रभिषेको गन्धधूपमाल्यादि । भवनमपि नाथ माभून्ननु भवतस्त्यक्तसङ्गस्य ॥११॥ तयदि कृतानुकारं, श्रद्धातिशयविशिष्टवसुविनियोगम् । आगममविसंवादं निरपायमहाफलोपलं भाभ्युदयम् ॥१२।। भवतः पूर्वावस्था-मास्थाय गुरोर्गुरूपदेशं च । कुर्वन्त्यभिषेकादीन्, प्रद्वेषः को विभूषायाम् ॥१३॥ युग्मम् ।। जिनभवनबिम्बपूजा-यात्रास्नात्रादिविभ्रमे भङ्गम् । मिथ्याप्ररूपणाकृत् - कुर्यादपवर्गमार्गस्य ॥१४॥ अभिषेकादिमहोत्सव-मुपलभ्य परेऽपि परमदेवस्य । परिपृच्छय कुतूहलिनो, जायन्ते गुणविशेषविदः ॥१५॥ चैत्यालयेन केचित्, केचिद्धिम्बादपास्तरागादेः । केचित्पूजातिशयाद् - बुध्यन्ते केचिदुपदेशात् ॥१६॥ भवतो भवने बिम्बे, पूजातिशये यथार्थमुपदेशे । यतमानस्तीर्थकरत्वनामगोत्रं समारभते ॥१७॥ इति धनरत्नसुवर्ण-सग्वस्त्रविलेपनाद्यलङ्कारैः । जनितादरो विजयते, जगद्गुरोर्जन्मसन्तानम् ॥१८॥ आ काव्यो बोलीने प्रतिमाने यथोपलब्ध आभूषणो पहेरावां.
॥ इति चतुर्थ पर्व ॥
बलिढौकन - एवं स्नातविलिप्ताऽलङ्कृतजिनबिम्बजातपरितोषः । कुर्वीत बलिविधानं, निधानमत्यन्तसौख्यानाम् ॥१।। सर्वैर्धान्यैः सर्वपुष्पैः समस्तैः, पाकैः शाकैः कन्दमूलैः फलैश्च ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org