SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ॥ ।। १९४ ।। Jain Education International आहूय स्थापयित्वा च संनिधाप्या जिनान्तिके । प्रतिष्ठाभेदतो बिम्ब-तले रत्नादिकं न्यसेत् ॥ १४३॥ अञ्जनं रूप्यकच्चोल स्थितं सर्पिर्मधुप्लुतम् । मन्त्रयित्वा शुभे स्थाने, रक्षणीयं प्रयत्नतः ॥ १४४ ॥ शुभे लग्ने नवमांशे, प्राप्ते स्वर्णशलाकया । नयनोन्मीलनं कुर्याद्, गुरुर्मन्त्रविधानवित् ॥ १४५ ॥ स्थैर्यं कृत्वाऽञ्जनस्याथ, मन्त्रन्यासपुरस्सरम् । वासगन्धादिनिक्षेपः, कर्तव्यो बिम्बमस्तके || १४६ ।। कार्यो मन्त्रोपदेशश्व, बिम्बवामेतरश्रुतौ । चक्रमुद्राविधानेन सर्वाङ्गस्पर्शनं तथा ॥ १४७॥ दधिपात्रं करे धृत्वा दृष्टिमार्गे विधाय च । दृष्टिदोषनिरोधाय सौभाग्यवर्धनाय च ॥ १४८ ॥ स्थैर्यसंपादनार्थाय, सौभाग्यधेनुबोधिकाः । मुद्राः संदर्श्य सौभाग्य- मन्त्रं तत्र न्यसेद् गुरुः ।। १४९ ।। रत्नसिंहासने बिम्बं निवेश्य मन्त्रपूर्वकम् । नमस्कारं पठन् सूरि-र्वासान् शिरसि निक्षिपेत् ॥ १५०॥ ततः प्रोक्षणकं कार्यं मङ्गलातोद्यपूर्वकम् । दानपूर्वं ततः पुष्प वर्षणादिकमाचरेत् ॥ १५१ ॥ निर्वाणोत्सवप्रायोग्य-स्तुतिमन्त्रपुरस्सरम् । कृत्वा स्नानविधिं पूजां वर्धापनमथाचरेत् ॥१५२॥ गन्धपुष्पादि पूजाङ्ग - मावेद्य मन्त्रपूर्वकम् । पूर्वपूजामपाकृत्य, नव्यपूजां विधापयेत् ॥ १५३ ॥ आरात्रिकादि संपाद्य, चैत्यवंदनपूर्वकम् । प्रतिष्ठादेवताकायोत्सर्गादिकं समाचरेत् || १५४ || भृताऽक्षताञ्जलिः संघ- सहितो गुरुरुच्चकैः । गाथामङ्गलमुद्घोष्य, संमुखमक्षतान् क्षिपेत ॥ १५५ ॥ प्रतिष्ठागुणगर्भं तां, गुरुः कुर्यात् सुदेषनाम् । यां श्रुत्वा भव्यात्मानोऽन्ये-पि स्युस्तत्करणेच्छवः || १५६ || For Private & Personal Use Only ॥ दशमाह्निके अञ्ज नशलाका प्रतिष्ठा विधि ॥ ।। १९४ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy