SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ ॥ नव ग्रहपूजा विधिः ॥ ॥ १२७ ॥ "जिनेन्द्रभक्त्या जिन भक्ति भाजां, जुषन्तु पूजाबलिपुष्पधूपान् । ग्रहा गता ये प्रतिकूलभावं, ते सानुकूला वरदा भवन्तु ॥१॥" आ काव्य बोली पाटला उपर चढावबी, प्रतिष्ठागुरुए तेना उपर वासक्षेप करवो. ग्रहस्थापना करी, तेनी आगल नीचे लखेल ग्रहशान्तिस्त्रोत्रनो पाठ करवो. "ग्रहशान्तिस्तोत्रम्" जगद्गुरुं नमस्कृत्य, श्रुत्वा सद्गुरुभाषितम् । ग्रहशान्ति प्रवक्ष्यामि, भव्यानां सुखहेतवे ॥१॥ जन्मलग्ने च राशौ च, यदा पीडन्ति खेचराः । तदा संपूजयेद् धीमान्, खेचरैः सहितान् जिनान् ॥२॥ पुष्पैर्गन्धैधूपदीपैः, फलनैवेद्यसंयुतैः । वर्णसदृशदानैश्च, वस्त्रैश्च दक्षिणान्वितैः ॥३॥ पद्मप्रभस्य मार्तण्ड-श्चन्द्रश्चन्द्रप्रभस्य च । वासुपूज्यो भूसुतश्च, बुधोऽप्यष्ट जिनेश्वराः ॥४॥ विमलानन्तधर्माराः, शान्तिः कुन्थु मिस्तथा । वर्धमानो जिनेन्द्राणां, पादपद्मे बुधं न्यसेत् ॥५॥ ऋषभाजितसुपार्था-श्वाभिनन्दनशीतलौ । सुमतिः संभवस्वामी, श्रेयांसश्च बृहस्पतिः ॥६॥ सुविधेः कथितः शुक्रः सुव्रतस्य शनैश्वरः । नेमिनाथस्य राहुः स्यात्, केतुः श्रीमल्लिपार्श्वयोः ॥७॥ जिनानामग्रतः कृत्वा, ग्रहाणां शान्तिहेतवे । नमस्कारशतं भक्त्या, जपेदष्टोत्तरं शतम् ॥८॥ भद्रबाहुरुवाचैवं, पञ्चमः श्रुतकेवली । विद्याप्रवादतः पूर्वाद्, ग्रहशान्तिविधिं शुभम् ॥९॥ ॥ १२७ ।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy