SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ (पं०)- 'इहेत्यादि' 'इह-परलोक-आदान-अकस्माद्-आजीव-मरण-अश्लाघाभेदेन , इहपरलोकादिभिः, 'भेदो' = विशेषः, तेन । तत्र मनुष्यादिकस्य सजातीयादेरन्यस्मान्मनुष्यादेरेव सकाशाद् यद्भयं तदिहलोकभयम् । इहाधिकृतभीतिमतो भावलोक 'इहलोकः', ततो भयमिति व्युत्पत्तिः । तथा विजातीयात्तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भयं, तत् परलोकभयम्। आदीयत इति आदानम् तदर्थं चौरादिभ्यो यद्भयं तदादानभयम् । 'अकस्मादेव' बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्भयम् । 'आजीवो' = वर्तनोपायस्तस्मिन् अन्येनोपरुध्यमाने भयमाजीवभयम् । मरणभयं प्रतीतम् । 'अश्लाघाभयम्' = अकीर्तिभयम्; ‘एवं हि क्रियमाणे महदयशो भवती'ति तद्भयान प्रवर्तते इति । एतत्प्रतिपक्षतः' एतस्य = उक्तभयस्य, प्रतिपक्षतः = परिहारेण, अभयं = भयाभावरूपम्, इति = इत्येवंलक्षणम् । पर्यायतोप्याह विशिष्टं' वक्ष्यमाणगुणनिबन्धनत्वेन प्रतिनियतम्, 'आत्मानो' जीवस्य, 'स्वास्थ्यं' स्वरूपावस्थानं; तात्पर्यतोऽप्याह 'निःश्रेयसधर्मभूमिकानिबन्धनभूता धृतिरित्यार्थ इति, निःश्रेयसाय = मोक्षाय, धर्मो निःश्रेयसधर्मः सम्यग्दर्शनादिः, तस्य भूमिका = बीजभूतो मार्गबहुमानादिर्गुणः, तस्य निबन्धनभूता = कारणभूता, धृतिः = आत्मनः स्वरूपावधारणम्, 'इत्यर्थः,' इति = एषः, अर्थः = परमार्थः । (ल०-धर्मः चित्तस्वास्थ्यहेतुक:-) नास्मिन्नसति यथोदितधर्मसिद्धिः, सन्निहितभयोपद्रवैः प्रकामं चेतसोऽभिभवात्; चेतःस्वास्थ्यसाध्यश्चाधिकृतो धर्मः तत्स्वभावत्वात् । विरुद्धश्च भयपरिणामेन, तस्य तथाऽस्वास्थ्यकारित्वात् । = (पं०-) एतदेव भावयति 'न हीति' 'न' = नैव, 'हि' यस्माद् 'अस्मिन्' = स्वास्थ्ये, 'असति' = अविद्यमाने, 'यथोदितधर्मसिद्धिः' = निःश्रेयसधर्मनिष्पत्तिः । कुत इत्याह 'सन्निहितभयोपद्रवैः' सन्निहितैः = चेतसि वर्तमानैः भयान्येवोक्तरुपाणि उपद्रवाः भयोपद्रवाः = व्यसनानि तैः, 'प्रकामम्' अत्यर्थं, 'चेतसो' मनसो, 'अभिभवात् ' पीडनात् । प्रकामग्रहणं च भयोपद्रवाणामान्तरङ्गत्वेनात्यन्तिकाभिभवहेतुत्वख्यापनार्थमिति । यदि नामैवं, ततः किमित्याह 'चेतःस्वास्थ्यसाध्यश्चाधिकृतो धर्मः' चित्तसमा धानहेतुश्चाधिकृतो धर्मः सम्यग्दर्शनादिः; कुत इत्याह 'तत्स्वभावत्वात्' - स्वभावो ह्यसौ धर्मस्य यच्चेतःस्वास्थ्यसाध्योऽसाविति । ननु भयपरिणामेऽप्यस्य सम्भवात् कथमभयहेतुकत्वमित्याह विरुद्धश्च' = निराकृतश्च भयपरिणामेन, कुत इत्याह 'तस्य' = भयपरिणामस्य तथा' = धर्मसाधकेन चेतःस्वास्थ्येन विरुद्धस्य 'अस्वास्थ्यकारित्वात्' अस्वास्थ्यस्य विधायकत्वात् । रखनी अत्यन्त जरुरी है कि 'मुझे जो कुछ कल्याण और उसके हेतुभूत अभयादि प्राप्त होगा वह अर्हत् प्रभु के प्रभाव से ही हो सकेगा। सात प्रकार के भय : अब अभयदयाणं पद की व्याख्या करते हैं। 'अभय' शब्द में 'भय' शब्द का अर्थ है इहलोक आदि सात विषयों के कारण सात प्रकार के भय, इस लोक का भय, परलोक का भय, आदान भय, अकस्माद् भय, आजिविका-भय, मृत्यु-भय, और अपकिर्ती-भय । यहां, (१) अन्य मनुष्यादि की ओर से इसके सजातीय मनुष्यादि को भय, यह इहलोक-भय कहलाता है। 'इहलोक' शब्द का व्युत्पत्ति अर्थ इस प्रकार है:- प्रस्तुत भयभीत होने वाले जीव की अपेक्षा से जो यहां भावलोक है अर्थात् सजातीय यानी समान जाति का जीव है, जैसे IS १३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001721
Book TitleLalit Vistara
Original Sutra AuthorHaribhadrasuri
AuthorBhuvanbhanusuri
PublisherDivya Darshan Trust
Publication Year
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy