SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ५ १० ५० २० पुरुदेव चम्पूप्रबन्धे ४ ) स्वजन कुमुदानन्दी संशोलयन्विविधाः कलाः सकलविमतान्पद्मान्संकोचयंश्च समन्ततः । सकिल ववृधे श्रीमान्बालेन्दुरुज्ज्वलमण्डल: नामधेयं प्रकटयन् पुत्रोऽभूत् । शार्दूलविक्रीडितच्छन्दः ||२|| ६४ ) स्वजनेति – स्वजना: कुटुम्बिजना एव कुमुदानि कैरवाणि तान्यानन्दयति विकासयतीत्येवंशीलः, विविधा अनेकाः कलाश्चातुरीः षोडशभागांश्च संशीलयन् लभमानः, सकलविमतान् निखिलशत्रून् पद्मान् कमलानि 'वा पुंसि पद्मं नलिनम्' इत्यमरोक्तेः पद्मशब्दस्य पुंस्यपि प्रयोगः सिद्धः समन्ततः परितः संकोचयन् निमीलयन्, श्रीमान् लक्ष्मीयुतः पक्षे शोभासहितश्च, उज्ज्वलं देदीप्यमानं मण्डलं देशो यस्य सः पक्षे उज्ज्वलं मण्डलं बिम्बं यस्य सः 'विम्बेषु त्रिषु मण्डलम् । मण्डलं निकुरम्बेऽपि देशे द्वादशराजके' इति विश्वलोचनः कुसुममिव सुकुमारं मृदुलमङ्गं शरीरं यस्य सः, १५ कुन्दं माध्यकुसुममिवोज्ज्वलं सितं यत् स्मितं मन्दहसितं तदेव चन्द्रिका ज्योत्स्ना यस्य तथाभूतः स बाल एवेन्दुर्बालेन्दुः वज्रजङ्घचन्द्रः ववृधे वृद्धि जगाम किलेति वाक्यालंकारे । रूपकालंकारो हरिणीछन्दः ॥३॥ ५ ) तदन्विति - तदनु तदनन्तरं शरच्चन्द्रिकया जलदान्त कालज्योत्स्नया राकाशशीव पौर्णमासीन्दुरिव तारुण्यलक्ष्म्या यौवनश्रिया भासुरं शरीरं यस्य तथाभूतो देदीप्यमानदेहः, वज्रजङ्घकुमारः, सुधावत् चूर्णकवत् अवदाताभिर्धवलाभिरपि पक्षे निर्मलाभिः निजगुणश्लाघाभिः स्वकीयगुणप्रशंसाभिः समस्तजनान् निखिलनरान् रक्तान् लोहितवर्णान् आतन्वन् कुर्वन् शुक्लवर्णाभिर्गुणश्लाघाभिः समस्तजनानां रक्तीकरणं विरुद्धमनः परिहारपक्षे रक्तान् अनुरागयुक्तान् कुर्वन्निति योज्यम्, पूर्वभवे ललिताङ्गनिलिम्पपर्याये परिशीलितः समनुभूतो यः स्वयंप्रभाया अनुरागस्तेन लोलाक्षीषु ललनासु निःस्पृहतामुदासीनतामुपगतोऽपि प्राप्तोऽपि सरस्वती च कीर्तिश्च लक्ष्मीश्चेति सरस्वती कीर्ति लक्ष्म्यस्ताभिः शारदासमज्ञापद्माभिः सततं निरन्तरं चिक्रीड क्रीडति स्म । ९६ ) तत इति - ततो ललिताङ्गस्य नाकाच्च्यवनानन्तरं स्वयंप्रभादेवी च ललिताङ्गदेवस्य वियोगो विप्रलम्भस्तेन प्रियविप्रयुक्ता कुसुमसुकुमाराङ्गः कुन्दोज्ज्वलस्मितचन्द्रिकः ॥३॥ १५ ) तदनु राकाशशीव शरच्चन्द्रिकया तारुण्यलक्ष्म्या भासुरशरीरों वज्रजङ्घकुमारः सुधावदाताभिरपि निजगुणश्लाघाभिः समस्तजनान् रक्तानातन्वन् पूर्वंभवपरिशीलित स्वयंप्रभानुरागेण लोलाक्षीषु निःस्पृहतामुपगतोऽपि सरस्वतीकीर्तिलक्ष्मीभिः सततं चिक्रीड । $ ६ ) ततः स्वयंप्रभादेवी च ललिताङ्गदेववियोगेन प्रियविप्रयुक्ता चक्राह्वीव बहुदीनदशा [ २६४ २५ प्रकट करता हुआ पुत्र उत्पन्न हुआ ||२|| ९४ ) स्वजनेति - जो कुटुम्बीजनरूपी कुमुदोंको विकसित कर रहा था, नाना प्रकारकी कलाओं - चतुराइयों ( पक्ष में षोडशभागों) को प्राप्त कर रहा था, समस्त शत्रुरूपी कमलोंको सब ओरसे संकुचित कर रहा था, श्रीमान् – लक्ष्मीमान् ( पक्ष में शोभासे सहित ) था, देदीप्यमानमण्डल - देश ( पक्ष में बिम्ब ) से सहित था, फूलके समान सुकोमल शरीरका धारक था तथा कुन्दके समान उज्ज्वल मुसक्यानरूपी चाँदनीसे ३० सहित था ऐसा वह बालकरूपी चन्द्रमा वृद्धिको प्राप्त हो रहा था || ३|| $५ ) तदन्विति तदनन्तर शरद् ऋतुकी चाँदनीसे पूर्णिमाके चन्द्रमाके समान यौवनकी लक्ष्मीसे जिसका शरीर अत्यन्त सुशोभित हो रहा था ऐसा वज्रजंघकुमार, चूनाके समान उज्ज्वल --- सफेद ( पक्ष में निर्मल ) स्वकीय गुणोंकी प्रशंसासे सब लोगोंको रक्त- लालवर्ण ( पक्ष में अनुरागसे युक्त ) करता हुआ, पूर्वभवमें अनुभूत स्वयंप्रभा के अनुरागके कारण यद्यपि अन्य स्त्रियों में ३५ उदासीनताको प्राप्त था तो भी सरस्वती कीर्ति और लक्ष्मीके साथ निरन्तर क्रीड़ा करता रहता था । (६) तत इति - तदनन्तर स्वयंप्रभादेवी भी ललितांगदेवके वियोग से पतिविरहित चकवीके समान अत्यन्त दीन दशाको प्राप्त हो गयी । वर्षाकाल में जिसने मधुर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy