________________
टीकाकर्तृप्रशस्तिः
यदीयादेशमासाद्य टोकैषा निर्मिता मया। विद्यानन्दो मुनिः सोऽयं शिवायास्तु सदा सताम् ॥१।। पन्नालारून बालेन गल्लीलालतनूभुवा। जानकीजातजनुषा सागरकोडवासिना ॥२॥ चैत्रमासत्रयोदश्यां श्यामायां सत्तिथी मया । भौमवारदिने रम्ये मुहूर्ते ब्राह्मसंज्ञिते ॥३॥ चतुर्नवयुगद्वन्द्वमिते वीराब्दनामनि। संवत्सरे समाप्तेषा टोकेयं टोकतां बुधान् ॥४॥ अहंदासकृते काव्ये श्लेषालंकारसंयुते । टीकेयं सततं भूयाद्विदुषां मोददायिनी ।।५।। नानावृत्तमयो नानासदलंकारसंयुतः। पुरुदेवप्रबन्धोऽयं चम्पूरोत्या विनिर्मितः ॥६॥ अमन्दानन्दसंदायी विदुषां वर्तते भुवि । टोकां विना महाक्लेशं प्राप्नुवन्ति सदा बुधाः ॥७॥ विचार्यैतत् कृता टीका यथाबद्धिसमासतः । हिन्द्यां गीर्वाणवाण्यां च शोधनीया सदा बुधैः ।।८।। नानाश्लेषतरङ्गाढयं प्रबन्धं सागरोपमम् । कथं तर्तु समर्थाः स्युष्टीकया नौकया विना ।।९।। छात्रा इत्येव संधायं टोकैषा रचिता मया । क्षमन्तां स्खलनं मेऽत्र विद्वांसोऽवद्यवजिताः ।।१०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org