SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ दशमः स्तबकः १ ) तदनु नातिदूरसंनिविष्टस्य चक्रधरस्य पुरप्रवेशसमये विजितारातिचक्रे चक्ररत्ने पुरगोपुरं नातिक्रामति, तद्रक्षणदक्षेषु यक्षेषु क्रोधविस्मयाभ्यां परवशेषु, तदुदन्तमाकण्र्यं विस्मितेन प्रभुणा पृष्ठे पुरोहिते भ्रातृविजयावशेषं चक्रान्नातिक्रमणनिमित्तं ब्रुवाणे, तत्क्षणं सोपायनवाचिकं प्रहितैः कार्यज्ञदूतैविज्ञातवृत्तान्तेषु भरतेशानुजेषु, जगद्गुरुसभामासाद्य तपोलक्ष्मीमेव बहुमन्य५ मानेषु समागतदूतव्रातविदिततदुदन्तो मनुकुलजलधिकुमुदिनीकान्तो भरतमहीकान्तः किंचिच्चिन्ताक्रान्तो भुजबलशालिनं भुजबलिनं युवानमनुनेतु ं व्याकुलमानसः कार्यज्ञं मन्त्रविशारदं दूतं तत्प्रान्तं प्रतिप्रेषयामास । 89 ) तदन्विति तदनन्तरं नातिदूरे समीपप्रायस्थाने संनिविष्टस्य स्थितस्य चक्रधरस्य भरतेश्वरस्य पुरप्रवेशसमये नगरप्रवेशावसरे विजितं पराभूतमराविचक्रं शत्रुसैन्यं येन तथाभूते चक्ररत्ने सुदर्शनचक्रे पुरगोपुरं १० नगरप्रधानद्वारं नातिक्रामति नोल्लङ्घयति सति, तस्य चक्ररत्नस्य रक्षणदक्षेषु रक्षासमर्थेषु यक्षेषु तज्जातीयव्यन्तरामरेषु क्रोधविस्मयाभ्यां कोपाश्चर्याभ्यां परवशेषु परायत्तेषु सत्सु तदुदन्तं तद्वृत्तान्तम् आकण्यं श्रुत्वा विस्मितेन चकितेन प्रभुणा चक्रवर्तिना पृष्टेऽनुयुक्ते पुरोहिते पुरोधसि भ्रातॄणां विजयस्यावशेषस्तं चक्रानाति - क्रमणस्य निमित्तं कारणं ब्रुवाणे कथयति सति, तत्क्षणं तत्कालमेव उपायनवाचिकाभ्यां प्राभृतसंदेशाभ्यां सहेति सोपायनवाचकं यथा स्यात्तथा प्रहितैः प्रेषितैः कार्यज्ञः करणीयकार्यज्ञानयुक्तेर्द्वतैश्चरैः भरतेशानुजेषु १५ विज्ञानवृत्तान्ते ज्ञाततदुदन्तेषु भरतेश्वरलघुसहोदरेषु जगद्गुरुसभां वृषभजिनेन्द्रसमवसरणम् आसाद्य प्राप्य तपोलक्ष्मीमेव तपः श्रियमेव बहुमन्यमानेषु श्रेष्ठां जानत्सु, समागतदूतव्रातेन प्रतिनिवृत्तचरसमूहेन विदितोsवगतस्तदुदन्तस्तद्दोक्षा ग्रहणसमाचारो येन सः, मनुकुलमेव जलधिर्मनुकुलजलधिस्तस्मै कुमुदिनीकान्तः चन्द्रः भरतमहीकान्तो भरतराजः किंचिन्मनाङ् चिन्ताक्रान्तः चिन्तितः सन् भुजबलशालिनं बाहुविक्रम विशोभिनं भुजबलिनं बाहुबलिनं युवानं युवराजम् अनुनेतुमनुकूलयितुं व्याकुलमानसो व्यग्रहृदयः कार्यज्ञं करणीय२० कार्यनिपुणं मन्त्रविशारदं मन्त्रणानिपुणं दूतं प्रणिधि तत्प्रान्तं तत्प्रदेशं प्रति प्रेषयामास प्रजिघाय । १ ) तदन्विति -- तदनन्तर चक्रवर्ती अयोध्यासे कुछ दूरीपर ठहर गये। जब उनका नगर में प्रवेश करने का अवसर आया तब शत्रओंके समूहको जीतनेवाला चक्ररत्न नगरके गोपुरका उल्लंघन नहीं कर सका। यह देख उसकी रक्षामें समर्थ यक्ष क्रोध और आश्चर्य से परवश हो गये । उस वृत्तान्तको सुनकर आश्चर्य से चकित चक्रवर्तीने पुरोहितसे उसका २५ कारण पूछा । पुरोहितने 'भाइयोंका जीतना अभी बाकी है' यही चक्ररत्नके अनुल्लंघनका कारण बतलाया । उसी समय उपहार और सन्देशके साथ कार्यके ज्ञाता दूत उनके पास भेजे गये । दूतोंसे सब वृत्तान्त जान कर भरतके छोटे भाइयोंने वृषभजिनेन्द्र के समवसरण में जाकर तप लक्ष्मीको स्वीकार करना ही श्रेष्ठ माना । जब लौटे हुए दूतोंके समूहसे उनका वृत्तान्त मालूम हुआ तब मनुवंशरूपी समुद्रको वृद्धिंगत करनेके लिए चन्द्रमा स्वरूप भरत३० राज कुछ चिन्तासे व्याप्त हो गये । तदनन्तर बाहुबलसे सुशोभित युवराज बाहुबलीको अनुकूल करनेके लिए उन्होंने कार्यके ज्ञाता एवं मन्त्रणा में निपुण दूतको उनके प्रान्तकी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy