SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ -४४ ] ३४१ विचित्रचक्रवल्लभास्थानमण्डपे दूरानतमणिमुकुटः करिहरिकन्यारत्नप्रमुखवस्तुवाहनपुरःसरं कोटीरकोटिचुम्बितधरणीतलं म्लेच्छराजकदम्बकं तत्तद्देशनामगोत्रादिनिर्देशेन प्रभवे निवेदयामास । नवमः स्तबकः $ ४२ ) ततो भरतभूपतिः सबहुमानमेतान्नृपान् विसर्ज्यं नरपालकाचितमुदारवीर्याकरम् । षडङ्गबलवल्लभं विजयचिह्नितेर्मानयन् जयाय पुनरादिशन्निखिलवीरचूडामणिम् ||२७|| $ ४३ ) तदा जयानकध्वाना आचान्ताम्भोधिघोषणाः । अनुचक्रुर्महाघोरकल्पान्ताम्भोदगर्जितम् ||२८|| $ ४४ ) जयकुञ्जरमारूढः परीतो नृपकुञ्जरैः । Jain Education International जे नियन्प्रयाणाय सम्राट् शक्र इवामरैः ||२९| ५ यश्चक्रवल्लभस्य चक्रपते रास्थानमण्डपः सभामण्डपस्तस्मिन् दूरानतमुकुटो दूरादानतं विनम्रं मुकुटं यस्य तथाभूतः करिणो हस्तिनो हरयो हयाः कन्यारत्नानि कन्याश्रेष्ठानि च तानि प्रमुखानि येषु तथाभूतानि यानि वस्तुवाहनानि तानि पुरस्सराणि यस्य तत्, कोटोरकोट्या मुकुटाग्रभागेण चुम्बितं स्पृष्टं घरणीतलं भूपृष्ठं येन तथाभूतं म्लेच्छराजकदम्बकं म्लेच्छराजसमूहं तत्तद्देशनामगोत्रादिनिर्देशेन तत्तज्जनपदाभिधानवंशप्रभृतिकथनेन प्रभवे चक्रवर्तिने निवेदयामास कथयामास । सहागतम्लेच्छराजानां परिचयं प्रभवे प्रदत्तवानिति यावत् । १५ $ ४२ ) तव इति - ततस्तदनन्तरं भरतभूपतिः भरतेश्वरः एतान् सेनापति निर्दिष्टान् नृपान् म्लेच्छराजान् सबहुमानं ससत्कारं यथा स्यात्तथा विसर्ज्य नरपालकाचितं राजपूजितम् उदारवीर्याकरम् समुत्कृष्टवीर्यास्पदं निखिलवीरेषु चूडामणिरिव तं सकलसुभटशिरोमणि तं षडङ्गबलवल्लभं षडङ्गसेनाध्यक्षं विजयचिह्नितेः मानयन् सत्कुर्वन् पुनः भूयोऽपि जयाय जेतुम् आदिशत् आज्ञां ददौ । पृथ्वी छन्दः ||२७|| ४३ ) तदेतितदा तस्मिन् काले आचान्ता निगीर्णा अम्भोषिघोषणा समुद्रगर्जनशब्दा यैस्तथाभूता जयानकध्वाना विजयपटह- २० शब्दा 'शब्दो निनादो निनदो ध्वनिध्वानरवस्वनाः' इत्यमरः, महाघोरं महाभयंकरं कल्पान्ताम्भोदानां प्रलयपयोदानां गर्जितमिति महाघोरकल्पान्ताम्भोदगर्जितम् अनुचक्रुविडम्बयामासुः ||२८|| § ४४ ) जयेतिजयकुञ्जरं विजयिवारणम् आरूढोऽधिष्ठितः नृपकुञ्जरैः श्रेष्ठनरेन्द्रः परीतः परिवृतः प्रयाणाय प्रस्थानाय निर्यन् १० सभा मण्डप में प्रविष्ट हुआ । प्रवेश करते समय उसका मुकुट दूरसे ही नम्रीभूत हो रहा था । हाथी, घोड़ा तथा कन्या रत्न आदि वस्तुएँ और वाहनोंको साथ लेकर मुकुटोंकी कलंगियोंसे २५ पृथिवीतलको चुम्बित करनेवाले म्लेच्छ राजाओंका एक बड़ा समूह उसके साथ आया था । उन सबके भिन्न-भिन्न देश नाम तथा गोत्र आदिका निर्देश करते हुए उसने चक्रवर्तीके लिए सबका परिचय दिया । ६४२ ) तत इति - तदनन्तर चक्रवर्तीने बहुत सम्मानके साथ इन राजाओंको विदा कर, राजाओंके द्वारा पूजित, उत्कृष्ट पराक्रमकी खान एवं समस्त वीरोंके शिरोमणि स्वरूप षडंग सेनाके अध्यक्ष सेनापतिका विजय चिह्नोंसे सम्मान कर उसे विजय प्राप्त करने के लिए फिरसे आदेश दिया ||२७|| १४३ ) तदेति – उस समय समुद्रकी गर्जनाको तिरस्कृत करनेवाले जीतके नगाड़ोंके शब्द, प्रलयकालीन मेघोंकी महाभयंकर गर्जनाका अनुकरण कर रहे थे । ९४४) जयेति - प्रस्थान करते समय विजयी हाथीपर सवार तथा श्रेष्ठ राजाओंसे घिरा हुआ चक्रवर्ती देवोंसे घिरे इन्द्रके समान सुशोभित हो रहा था For Private & Personal Use Only ३० www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy