________________
-३२ ]
नवमः स्तबकः
३३७
श्रीमन्तं चक्रपाणि नियमयुतमथो राजतानेरधीशो
देवः संद्रष्टुमागान्मणिमुकुटरुचिद्योतिताशान्तरालः ।।१९।। $३०) नतः सुरः ससत्कारं चक्रिणा धुरि कल्पितम् ।
भद्रासनमलंकुर्वन्नुवाच वदतांवरः ॥२०॥ ६३१) विजयागिरेरहं नियन्ता विजयार्थोऽस्मि वनामरः प्रभो!।
परवान् भवतो नृप ! त्वदाज्ञा मम मोलेः शिखरे महीयते ।।२१।। 5 ३२ ) वक्त्रे दोषाकरश्रीदेशि जडजरुचिः सूनलक्ष्मीश्च हासे
शक्तिनिस्त्रिंशजेयं भुजभुवि कुटिला चापयष्टिः करे ते । आज्ञेयं सर्वदा श्रीभरतनरपते वृद्धया किं मयात्रे
त्येवं प्रोच्य प्रकोपात्सुरपतिनगरं प्राप कीर्तिस्त्वदीया ।।२२।।
कृतः सेनानिवेशो येन तं, श्रीमन्तं लक्ष्मीमन्तं नियमयुतमनशनादिनियमसहितं चक्रपाणि भरतेश्वरं संद्रष्टुं समवलोकितुं राजतानॆविजयापर्वतस्य अधीशोऽधिष्ठाता देवः मणिमुकुटस्य रत्नमयमौले रुचिभिर्मरीचिभिर्योतितानि प्रकाशितानि आशान्तरालानि दिगन्तराणि येन तथाभूतः सन् आगात् आजगाम । स्रग्धरा ॥१९॥ $३०) नत इति-चक्रिणा भरतेन ससत्कारं यथा स्यात्तथा धुरि अग्ने कल्पितं धृतं भद्रासनं मङ्गलासनम् अलंकुर्वन शोभयन नतो नम्रो वदतांवरो वक्तश्रेष्ठः सुरोऽमरः उवाच जगाद ॥२०॥ ३१) विजयाधतिहे प्रभो! अहं विजयागिरेविजयापर्वतस्य नियन्ता शासकः विजया? विजयाधनामधेयो वनामरो व्यन्तरामरः अस्मि, भवतः परवान अधीनोऽस्मि, हे नप ! हे राजन् ! त्वदाज्ञा भवदाज्ञा मम मोलेर्मकटस्य शिखरेऽग्रे महीयते पज्यते ॥२१॥३३) वक्त्र इति-हे श्रीभरतनरपते ! हे भरतराजेश्वर ! ते तव वक्त्रे मुखे दोषाकरश्रोः दोषाणामवगुणानामाकरः खनिरिति दोषाकरस्तथाभूता श्रोः लक्ष्मी अस्तीति शेषः पक्ष दोषाकरस्येव निशाकरस्येव श्रोरिति दोषाकरश्रीः, दृशि नयने जडजरुचिः जडे मूर्खे जायते स्मेति जडजा तयाभूता २० रुचिरिच्छा चेति जडजरुचिः पक्षे डलयोरभेदात् जलजस्येव कमलस्येव रुचिः कान्तिः, हासे हास्ये सूनलक्ष्मीः अतिशयेन ऊना सूना अत्यल्पा तथाभूता लक्ष्मोश्चेति सूनलक्ष्मीः पक्षे सूनानामिव पुष्पाणामिव लक्ष्मीरिति सूनलक्ष्मीः, भुजभुवि बाहुवसुधायाम्, इयमेषा निस्त्रिशजा क्रूरजनोत्पन्ना शक्तिः सामर्थ्य पक्षे निस्त्रिशजा खङ्गोत्पन्ना शक्तिः सामर्थ्यम्, करे हस्ते च कुटिला वक्रा अपयष्टिः अपकृष्टा कुत्सिता यष्टिरति अपयष्टिः, पक्ष कुटिला समौर्वीकत्वेन कुटिला वक्रा चापयष्टिः धनुर्यष्टिः, इयमेषा आज्ञा सर्वदा सर्वान् द्यति खण्डयतीति २५
लेकर स्थित था ऐसे श्रीमान् भरतके दर्शन करनेके लिए विजया पर्वतका अधिपति देव, मणिमय मुकुटकी किरणोंसे दिशाओंके अन्तरालको व्याप्त करता हुआ आया ।।१९।। ६३० ) नत इति-चक्रवर्ती भरतके द्वारा बहुत सत्कारके साथ आगे किये हुए भद्रासनको अलंकृत करता हुआ, वक्ताओंमें श्रेष्ठ वह नम्रदेव इस प्रकार कहने लगा॥२०॥ ६३१) विजयातिहे प्रभो ! मैं विजयाध पर्वतका शासक विजया नामका व्यन्तर हूँ, हे राजन् ! आपके ५० अधीन हूँ, आपकी आज्ञा मेरे मुकुटके अग्रभागपर सम्मानको प्राप्त हो रही है ॥२१॥ ६३२) वक्त्र इति-हे श्री भरतनरेन्द्र ! आपके मुखमें दोषाकरश्रीः-दोषोंकी खान स्वरूप लक्ष्मी है (पक्षमें चन्द्रमाके समान लक्ष्मी है), नेत्रोंमें जडजरुचिः-मूर्ख मनुष्यमें उत्पन्न होनेवाली इच्छा है ( पक्षमें कमल जैसी कान्ति है), हासमें सूनलक्ष्मी-अत्यन्त अल्प लक्ष्मी है ( पक्षमें फूलों जैसी शोभा है ), बाहुरूपी भूमिमें यह निस्त्रिंशजा-क्रूर मनुष्यसे उत्पन्न शक्ति ३५ है ( पक्षमें तलवारसे उत्पन्न शक्ति है), हाथमें कुटिला-चापयष्टिः-टेढ़ी एवं खराब लाठी है
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org