________________
-१८ ]
चानुगम्यमानः प्रतिदेशमुपनीतप्राभृतजालान्नरपालान् प्रतिवनं चमरीबाल कस्तूरिकाण्डहस्तिमस्तकोद्भूतमुक्ताफलादिकमुपदीकुर्वाणान् शबरधरारमणांश्च यथार्ह संभावयन् गङ्गाद्वारमुपजगाम ।
$ १७ ) बहिःपारावारं भरतनृपतिर्द्वप्यसलिलं
नवमः स्तबकः
मुदा पश्यंस्तत्र स्थलपथगतः सैन्यसहितः । विशन्वेदीद्वारं ततसुरतटिन्यास्तटवने
निवेशं सेनायाः समतनुत सन्मन्दपवने ||१२||
१८) तदनु लवणजलधिजयोद्युक्तस्त्रिरात्रप्रोषितः सादरमधिवसितजेत्रास्त्र संततमन्त्रानुचिन्तनपरतन्त्रः पावनं दर्भशयनमधिशयानः पुरोधसं पुरस्कृत्य विहितपरमेष्ठिपूजः सेनारक्षणाय
Jain Education International
३३१
षडङ्गसेनया गङ्गावाहिन्या गङ्गानद्या च अनुगम्यमानः, अथोभयोः सादृश्यमाह - प्रचलितपरमकरवालया प्रचलिताः प्रकर्षेण चलिताः परमकरवालाः श्रेष्ठकृपाणा यस्यां तया षडङ्गवाहिन्या, प्रचलिता घूर्णमाना १० मकरबाला जलजन्तुविशेषशिशवो यस्यां तथा गङ्गावाहिन्या, अतिशयितसिन्धुरयोज्ज्वलया अतिशयिताः श्रेष्ठा सिन्धुरा गजा यस्यां तया अतिसिन्धुरया उज्ज्वलया शोभमानया च षडङ्गवाहिन्या, अतिशयिता अतिक्रान्ताः सिन्धवोऽन्यनद्यो येन तथाभूतो यो रयो वेगस्तेनोज्ज्वलया गङ्गावाहिन्या, बहुलेन प्रभूतेन हरिजालस्य हयसमूहस्य कोलाहलेन कलकलेन मुखरितानि वाचालितानि दिगन्तराणि यथा तथा षडङ्गवाहिन्या बहुलरिजालस्य प्रभूततरङ्गस्तोमस्य कोलाहलेन मुखरितानि दिगन्तराणि यथा तथा गङ्गावाहिन्या । प्रतिदेशं प्रतिजनपदं उपनीतप्राभृतजालान् प्रापितोपहारसमूहान् नरपालान् राज्ञः प्रतिवनं प्रतिकाननं चमरीबालाः चमरीमृगपिच्छकचाः, कस्तूरिकाण्डाः कस्तूरी मृगवृषणाः, हस्तिमस्तकोद्भूतानि मतङ्गजमूर्धोत्पन्नानि मुक्ताफलानि च आदी यस्य तत् उपदीकुर्वाणान् उपायनीकुर्वाणान् शबरधरारमणान् पुलिन्दराजांश्च यथाहं यथायोग्यं संभावयन् संमानयन् गङ्गाद्वारम् उपजगाम प्राप । श्लेषोपमा । $ १७ ) बहिरितिभरतनृपतिर्भरतेश्वरः बहिःपारावरं समुद्राद्बहिः स्थितं द्वैप्यसलिलं द्वीपस्थितोपसागरजलं मुदा हर्षेण पश्यन् अवलोकयन् स्थलपथगतः स्थलमार्गश्रितः सैन्यसहितः पृतनायुतः वेदीद्वारं विशन् सन्मन्दपवने प्रशस्तमन्दसमीरे ततसुरतटिन्या विस्तृतगङ्गाया तटवने तीरोद्याने सेनाया ध्वजिन्याः निवेशं समतनुत विस्तारयामास । गङ्गातीरोद्याने सेनां निवेशयामासेत्यर्थः । शिखरिणीच्छन्दः ॥ १२ ॥ ई१८) तदन्विति - तदनु तदनन्तरं लवणजलधिजये लवणसमुद्रविजये उद्युक्तस्तत्परः त्रिरात्रप्रोषितः रात्रित्रयं यावद्गृहीतोपवासः सादरं यथा स्यात्तथा अधिवासितानि स्थापितानि यानि जैत्रास्त्राणि तैः संततो यो मन्त्रस्तस्यानु- २५
For Private & Personal Use Only
१५
जिसमें मगरोंके बच्चे उछल-कूद कर रहे थे, जिसने अन्य नदियों के वेगको तिरस्कृत कर दिया था, जो अत्यन्त उज्ज्वल थी और लहरों के बहुत भारी कोलाहलसे जो दिग्दिगन्तको मुखरित कर रही थी ऐसी गंगा नदी उनके साथ-साथ चल रही थी । प्रत्येक देश में बड़े-बड़े उपहारों के समूहको लेकर आये हुए राजाओंको तथा प्रत्येक वनमें चमरी मृगके बाल, कस्तूरी मृगके अण्डकोष और हाथियोंके मस्तकों में उत्पन्न गजमोतियों आदिकी भेंट देने वाले म्लेच्छ राजाओंका सम्मान करते हुए वे गंगा नदीके द्वारके समीप जा पहुँचे । $१७) बहिरिति - वहाँ समुद्र के बाहर स्थित द्वीप सम्बन्धी जल ( उपसागर ) को जो बड़ी प्रसन्नतासे देख रहे थे, तथा जो सेना सहित स्थल मार्गसे चल कर वेदद्वार में प्रविष्ट हुए थे ऐसे भरतेश्वरने, समीचीन मन्द पवनसे युक्त विशाल गंगा नदीके तटोद्यान में सेना के डेरे डाले || १२ || $१८ ) तदन्विति - तदनन्तर जो लवण समुद्रके जीतने में उद्यमशील थे, तीन दिन-रातका जिन्होंने उपवास किया था, जो आदर सहित रखे हुए विजय साधनस्वरूप देवोपनीत शस्त्रोंसे सम्बद्ध मन्त्रोंके अनुचिन्तनमें लीन थे, जो पवित्र
३५
२०
३०
www.jainelibrary.org