SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३२६ पुरुदेवचम्पूप्रबन्धे [९।७ विख्याततुरङ्गरत्नेन, मनोहरस्त्रीरत्नेन च प्रत्येकं सहस्रयक्षयक्षोरक्षितेन यथोचितमनुगम्यमानः शारदनीरदानुकारिविमलदुकूलः चन्द्रातपपाण्डुरहरिचन्दनानुलिप्तशरीरः, स्फुरन्मल्लिकामालापरिष्कृतमुकुटतटस्तारातरलमुक्ताफलकलिताजानुविलम्बिब्रह्मसूत्रो जयलक्ष्मीपरिणयमङ्गलमणिमयदीपायमानकोस्तुभमणिघृणिभासुरवक्षःस्थलः : समुद्दण्डभुजदण्डवास्तव्यचञ्चलराज्यलक्ष्मीकनकनिगलशङ्काकराङ्गदशोभितः सुरचापविलासोपहासिरुन्द्रेन्द्रच्छन्दहाराभिरामो, निजस्थपतिरत्ननिर्मितं मनःपवनपत्रिपत्रिपतिचतुष्टयविनयसंजातकीर्तिपुजैरिव चतुभिः शशिश्वेतैर्वाजिभिर्योजितमजितंजयनामधेयं स्यन्दनमधिरूढः सान्द्रमन्द्रजयदुन्दुभिध्वानपुरःसरजयघोषः पुरंध्रिकाजनमङ्गलगीतसंगतगुरुजनाशीर्वचनैश्च पूरितनभःस्थलो वारनारीकरचलितचामरनिकरदम्भसंभूत विजितः पवनवेगो वायुरहो येन तेन द्वादशयोजनोल्लङ्घनं यद् रहो वेगस्तस्य निवासभूतेन पवनंजयविख्यात१० तुरङ्गरत्नेन, मनोहरं मनोज्ञं यत्स्त्रीरत्नं तेन च प्रत्येकं प्रतिरत्नं सहस्रं यक्षयक्ष्य इति सहस्रयक्षयक्ष्यस्ताभी रक्षितेन यथोचितं यथायोग्यम् अनुगम्यमानः अनुस्रियमाणः, शारदनीरदानुकारिणी शरन्मेघसदृशे विमलदुकूले स्वच्छक्षोमे यस्य तथाभूतः शुक्लवस्त्रधारीत्यर्थः, चन्द्रातप इव ज्योत्स्नेव पाण्डुरो धवलो यो हरिचन्दनः शुक्लमलयजस्तेनानुलिप्तं दिग्धं शरीरं यस्य सः, स्फुरन्त्या शोभमानया मल्लिकामालया मालतीस्रजा परिष्कृतं शोभितं मुकुटतटं यस्य सः, तारावत्तरलैर्मुक्ताफलैर्मोक्तिकैः कलितं निर्मितम् आजानुविलम्बि १५ आजह नुविलम्बि ब्रह्मसूत्रं यज्ञोपवीताभिधानाभरणं यस्य सः, 'जानु जहनु च' इति धनंजयः, जयलक्ष्म्या विजयश्रियाः परिणयो विवाहस्तस्य मङ्गलमयो यो मणिदीपस्तद्वदाचरन् यः कौस्तुभमणिस्तस्य घृणिभिः किरणैर्भासुरं वक्षःस्थलं यस्य सः, समुद्दण्डभुजदण्डे वास्तव्या निवसनशीला या चञ्चलराजलक्ष्मीस्तस्याः कनकनिगलस्य स्वर्णनिगडस्य शङ्काकरेणाङ्गदेन केयूरेण शोभितः समलंकृतः, सुरचापविलासोपहासी शक्रशरासनशोभोपहासो यो रुद्रेन्द्रच्छन्दहारो नानायष्टियुक्तेन्द्रच्छन्दनामकहारस्तेनाभिरामो रमणीयः, निजस्थपतिरत्नेन स्वकीयतक्षकरलेन निर्मितं रचितं मनश्च चित्तं च पवनश्च वायुश्च पत्री च बाणश्व पत्रिपतिश्च गरुडश्चेति मनःपवनपत्रिपतयस्तेषां चतुष्टयस्य चतुष्कस्य यो विजयस्तेन संजाताः समुत्पन्नाः कीर्तिपुञ्जा यशोराशयस्तैरिव चतुभिः शशिश्वेतैरिन्दुघवलः वाजिभिहयैः 'वाजिवाहावंगन्धर्वहयसैन्धवसप्तयः' इत्यमरः, योजितं सहितं अजितंजयनामधेयं स्यन्दनं रथम् अधिरूढोऽधिष्ठितः, सान्द्रमन्द्रेण निविडगभोरेण दुन्दुभिध्वानेन भेरोशब्देन पुरःसराः सहिता ये जयघोषा आलोकशब्दास्तैः, पुरंध्रिकाजनानां सुवासिनीनां २५ मङ्गलगीतैः संगतानि सहितानि यानि गुरुजनाशीर्वचनानि तैश्च पूरितं संभरितं नभःस्थलं येन सः, वारनारी रत्नसे, पवनके वेगको जीतनेवाले तथा बारह योजनको लाँघनेवाले वेगके निवासभूत पवनंजय नामसे प्रसिद्ध अश्वरत्नसे और मनोहर स्त्रीरत्नसे जो यथायोग्य अनुगम्यमान था जिसके ये प्रत्येक रत्न एक-एक हजार यक्ष-यक्षियोंसे रक्षित थे, जिसके निर्मल वस्त्र शरद् ऋतुके मेघोंका अनुकरण कर रहे थे, जिसका शरीर चाँदनीके समान सफेद चन्दनसे लिप्त था, जिस३० का मुकुटतल खिली हुई मालतीकी मालासे सुशोभित था, जिसका ताराओंके समान चमकीले मोतियोंसे निर्मित यज्ञोपवीत घुटनों तक लम्बा था, जिसका वक्षःस्थल विजयलक्ष्मीके विवाह-सम्बन्धी मंगलमय मणिदीपके समान आचरण करनेवाले कौस्तुभ मणिकी किरणोंसे देदीप्यमान था, जो उन्नत बाहुदण्डमें निवास करनेवाली विजय लक्ष्मीके स्वर्ण निर्मित तोरणोंकी शंका करनेवाले बाजूबन्दोंसे सुशोभित था, जो इन्द्रधनुषकी शोभाकी हँसी ३५ उड़ानेवाले अनेक लड़ोंसे युक्त इन्द्रछन्द नामक हारसे मनोहर था, जो अपने स्थपति रत्नके द्वारा निर्मित, मन, वायु, बाण और गरुड़ इन चारोंको जीतनेसे उत्पन्न कीर्तिसमूहोंक समान तथा चन्द्रमाके समान शुक्ल चार घोड़ोंसे जुते हुए रथपर सवार था, सघन तथा गम्भीर २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy