________________
२९६
५
पुरुदेवचम्पूप्रबन्धे
४० ) शश्वद्वादितदेवदुन्दुभिरवे रापूरिताशान्तरा
लेखास्तुङ्गकिरीटरश्मि रचिताने केन्द्रचापभ्रमाः ।
उन्मीलत्तनुकान्तिभिर्विदधतो दिग्भित्तिचित्र भ्रमं देवास्थानमवातरत् धनदसंनिर्माणमिन्द्राज्ञया ||२४||
$ ४१ ) यत्किल समवसरणस्थानं भूमिभागात्पञ्चसहस्रदण्डादुपरिवर्तमानं द्वादशयोजनसमवृत्तेकेन्द्रनील शिलाघटितमसृणतलविलसिततया नीराकृताम्बरोऽप्यसौ देवो मया सेवितः सन् अनन्तसौख्यानन्तसूरिति मत्वा समागतेन विनयसंकुचिताङ्गेन व्योमस्थलेनेव विलसमानं, दिक्चतुष्टव्यवस्थितदेवमानवतियेंग्विनेय जन सुखा रोहण हेतुभृतमणिमयविशति सहस्रसोपानविराजमानं, भुवनत्रयलक्ष्मीलपनविलोकन मणिदर्पणायमानं, वलयितबलरिपुचापशङ्काकरेण, मोक्षलक्ष्मीमणिमय१० ६४० ) शश्वदिति - शश्वद् निरन्तरं वादितास्ताडिता ये देवदुन्दुभयः सुरानकास्तेषां रवैः शब्दैः आपूरितानि संभरितानि आशान्तराणि दिगन्तराणि यैस्ते, तुङ्ग किरीटानामुन्नतमुकुटानां रश्मिभिर्मरीचिभिः रचितः समुत्पादितः अनेकेन्द्रचापानां नानाशक्रशरासनानां भ्रमः संदेहो यैस्ते, उन्मीलन्त्य: प्रकटीभवन्त्यो यास्तनुकान्तयो देहदीप्तयस्ताभिः दिग्भित्तिषु काष्ठाकुडयेषु चित्रभ्रमम् आलेख्यसंशयं विदधतः कुर्वन्तः लेखा अमराः इन्द्राज्ञया सोधर्मेन्द्रादेशेन घनदेन कुबेरेण संनिर्माणं यस्य तत् कुबेररचितं देवास्थानं देवस्य भगवतो वृषभस्य आस्थान १५ समवसरणम् अवातरन् अवतरन्ति स्म शार्दूलविक्रीडित छन्दः ||२४|| ४१ यदिति यत् किल समयसरणस्थानं देवास्थानं भूमिभागात् भूपृष्ठात् पञ्चसहस्रदण्डात् पञ्चसहस्रपरिमितदण्डात् उपरि वर्तमानं विद्यमानं, द्वादशयोजन समवृत्ता द्वादशयोजनविस्तारयुक्ता समवृत्ता समा उच्चावच प्रदेशरहिता वृत्ता वर्तुला च या एकेन्द्रनीलशिला अखण्डनीलमणिशिला तथा घटितं रचितं यन्मसृणतलं सचाकचक्यपृष्ठं तस्मिन् विलसिततया शोभिततया असौ देवोऽयं भगवान् निराकृताम्बरोऽपि तिरस्कृताकाशोऽपि पक्षे तिरस्कृतवस्त्रोऽपि २० मया अम्बरेण नभसेत्यर्थः सेवितः सन् अनन्तं सौख्यं यस्मिन् सः अनन्तसौख्यः अनन्त सौख्यश्चासावनन्तरच मोक्षश्चेति अनन्तसौख्यानन्तस्तं सूत उत्पादयतीति अनन्तसोख्यानन्तसूः इनि मत्वा समागतेन समाघातेन • विनयेन संकुचितमङ्गं यस्य तेन तथाभूतेन व्योमस्थलेन गगनस्थलेनेव विलसमानं शोभमानं, दिक्चतुष्टयव्यवस्थितैः देवमानवतियंग्विनेय जन सुखा रोहण हेतुभूतैः मणिमयविशतिसहस्र सोपानैः विराजमानं भुवनत्रय लक्ष्म्या जगत्त्रयश्रिया लपनविलोकनाय मुखदर्शनाय यो मणिदर्पणस्तद्वदाचरत्, धूलिसालेन रत्नधूलिनिर्मित२५ प्राकारेण परीतं वेष्टितं, अथ च तमेव धूलिसालं वर्णयति - वलयितो मण्डलाकारोकृतो यो बलरिपुचाप
Jain Education International
[ 41880
देवोंके ये विमान नौकाओंका अनुकरण कर रहे थे || ३२ || १४० ) शश्वदिति - निरन्तर बजाये हुए देवदुन्दुभियोंके शब्दोंसे जिन्होंने दिशाओंके अन्तरालको भर दिया था, ऊँचेऊँचे मुकुटोंकी किरणोंसे जिन्होंने अनेक इन्द्रधनुषोंका भ्रम उत्पन्न किया था, तथा जो प्रकट होती हुई शरीरकी कान्तिके द्वारा दिशारूप दीवालोंपर चित्रोंका भ्रम उत्पन्न कर रहे थे ऐसे ३० देव, इन्द्रकी आज्ञासे कुबेरके द्वारा निर्मित भगवान् के समवसरण में उतरे ||२४|| $४१ ) यदिति - वह समवसरण पृथिवीतलसे पाँच हजार दण्ड ऊपर विद्यमान था, बारह योजन प्रमाण सम तथा गोल इन्द्र नीलमणिकी एक शिलासे निर्मित सचिक्कण तलपर सुशोभित होनेके कारण ऐसा जान पड़ता था मानो यह भगवान् निराकृताम्बर - आकाशका तिरस्कार करनेवाले ( पक्ष में वस्त्रका त्याग करनेवाले ) होकर भी मेरे द्वारा सेवित होते हुए अनन्त ३५ सुखसे युक्त मोक्षको उत्पन्न करनेवाले हैं ऐसा मानकर आये हुए तथा विनयसे संकुचित शरीरको धारण करनेवाले नभस्थलसे ही सुशोभित हो रहा था। चारों दिशाओं में स्थित, देव मनुष्य तथा तियंच मतिके शिष्य जनोंके सुखपूर्वक चढ़ने में कारणभूत मणिमय बीस
For Private & Personal Use Only
www.jainelibrary.org