________________
अष्टमः स्तबकः
२९३
स्वीकुर्वाणो योगयोग्यप्रदेशेष्ववहितध्यानाधीनमानसो विहरमाणः क्रमेणातिवाहितसंवत्सरसहस्रः पुरिमतालविदितनगरनिकटविलसितशकटसमाह्वयोपवनन्यग्रोधविटपिमूलतलविलसमाननिराकुल . निर्जन्तुकविमलशिलापट्टे निबद्धपल्यङ्कासनः, पूर्वाभिमुखः प्रहितध्यानोन्मुखमानसः, परां लेश्याशुद्धि दधानश्चेतसा परंपदमनुसंदधानः, सम्यग्दर्शनज्ञानानन्तवीर्यसौख्यसूक्ष्मत्वागुरुलघुत्वावगाहाव्याबाधारूपानष्टसिद्धगुणान्प्रथममनुध्यायन्, अध्रुवादिद्वादशानुप्रेक्षाभावनाभावितान्तःकरणः, तदनन्त- ५ रमाज्ञाविचयविपाकविचयापायविचयसंस्थानविचविख्यातानि धर्म्यध्यानानि भजमानो, ज्ञानादिपरिणामेषु निरतिशयशुद्धि संगृह्णानः, क्रमाच्छुक्लध्यानपरिणतो, घातिकर्माणि निःशेषयित्वा, फाल्गुनकृष्णकादशोदिने संप्राप्तोत्तराषाढनक्षत्रे सकलद्रव्यपर्यायस्वभावोद्भासनप्रवीणं भव्यसरोजतल्लजसमुल्लसननिपुणं केवलज्ञानतरणमुद्बोधयामास । चारं जिनकल्पाभिधानं निर्ग्रन्थाचारं स्वीकुर्वाणोऽङ्गोकुर्वन्, योगयोग्यप्रदेशेषु ध्यानार्हस्थानेषु अवहितध्यानस्य १० सावधानध्यानस्याधीनं निघ्नं मानसं यस्य तथाभूतः विहरमाणो विहारं कुर्वन् क्रमेण अतिवाहितमतिलचितं संवत्सरसहस्रं वर्षसहस्रं येन तयाभूतः, पुरिमतालेति नाम्ना विदितं प्रसिद्ध यन्नगरं पुरं तस्य निकटे समीपे विलसितं शोभितं शकटसमाह्वयं शकटनामधेयं उपवनमुद्यानं तस्य न्यग्रोधविटपिनो वटवृक्षस्य मूलतलेऽधस्तात् विलसमानः शोभमानो निराकुलो व्यग्रताकारणरहितो निर्जन्तुको जन्तुरहितो विमल: स्वच्छश्च यः शिलापट्टः पाषाणफलकस्तस्मिन् निबद्धं पल्यङ्कासनं येन तथाभूतो बद्धपद्मासनः, पूर्वाभिमुखः प्रहितं प्रकृष्टहितकरं यद् १५ ध्यानं तस्योन्मुखं संमुखं मानसं यस्य सः, परामुत्कृष्टां लेश्याशुद्धि कषायोदयेनानुरञ्जिता योगप्रवृत्तिलेश्या कथ्यते लेश्यायाः शुद्धिस्तां दधानः, चेतसा हृदयेन परं पदं मोक्षस्थानम् अनुसंदधानः भूयोभूयः संदधत् मोक्षप्राप्तिर्मम भवत्विति चेतसा चिन्तयन्निति यावत्, सम्यग्दर्शनादिरूपान् अष्टसिद्ध गुणान् ज्ञानावरणादिकर्मणामभावे प्रकटितानष्टगुणान् प्रथमं प्राक् अनुध्यायन् चिन्तयन्, अध्रुवादिद्वादशानुप्रेक्षाणां भावनया भावितं मुक्तमन्तःकरणं चित्तं यस्य तथाभूतः, तदनन्तरं तदनु आज्ञाविचयादिविख्यातानि धर्मध्यानानि भजमानः २० सेवमानः, ज्ञानादिपरिणामेषु निरतिशयशुद्धि विपुलतरशुद्धि संगृह्णानः स्वीकुर्वाणः, क्रमात् शुक्लध्याने पृथक्त्ववितर्कादिचतुर्विधशुक्लध्यानेन परिणतः सन्, घातिकर्माणि मोहज्ञानावरणदर्शनावरणान्तरायनामानि निःशेषयित्वा निःशेषाणि कृत्वा क्षपयित्वेत्यर्थः, फाल्नकृष्णकादशीदिने संप्राप्तोत्तराषाढनक्षत्रे सकलद्रव्यपर्यायाणां स्वभावस्योद्भासने प्रकटने प्रवोणं निपुणं भव्या एव सरोजतल्लजानि श्रेष्ठकमलानि तेषां समुल्लसने
ध्या
रहे थे, ध्यानके योग्य स्थानोंमें जिनका मन सावधान होकर ध्यान धारण करता था, तथा २५ विहार करते हुए जिन्होंने क्रमसे एक हजार वर्ष व्यतीत कर दिये थे ऐसे मुनिराज वृषभ, एक दिन पुरिमताल नामसे प्रसिद्ध नगरके निकट शोभायमान शकट नामक उपवनमें वट वृक्षके नीचे सुशोभित आकुलताके कारणोंसे रहित चिंउटी आदि जन्तुओंसे शून्य निर्मल शिलातलपर पर्यकासनसे पूर्वाभिमुख होकर विराजमान हुए। वहाँ जिन्होंने श्रेष्ठ सम्मुख चित्त किया है, जो लेश्याकी परम विशद्धताको धारण कर रहे थे, हृदयसे जो परम- १ पा-मोक्षका ही विचार करते थे ऐसे भगवानने पहले सम्यग्दर्शन, सम्यग्ज्ञान, अनन्त वीर्य, अनन्त सौख्य, सूक्ष्मत्व, अगुरुलघुत्व, अवगाह और अव्याबाधा इन सिद्धोंके आठ गुणोंका चिन्तवन किया, फिर अनित्य आदि बारह अनुप्रेक्षाओंकी भावनासे अन्तःकरणको युक्त किया, तदनन्तर आज्ञाविचय, अपायविचय, विपाकविचय और संस्थान विचय इन नामोंसे प्रसिद्ध चार धर्म्य ध्यानोंको धारण किया, ज्ञानादि परिणामोंमें अत्यधिक विशुद्धिको प्राप्त ३५ किया, पश्चात् क्रमसे शुक्लध्यानरूप परिणत हो घातिया कर्मों का क्षय कर फाल्गुन कृष्ण एकादशीके दिन उत्तराषाढ़ नक्षत्रमें उस केवलज्ञानरूपी सूर्यको प्रकट किया जो कि समस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org