________________
२४२ पुरुदेवचम्पूप्रबन्धे
[ ६६५१वरानन्दशरच्चन्द्रः सुन्दरमन्मनहसितमन्मनालापलसितमणिकुट्टिमचक्रमणादिभिः पित्रोरानन्द कन्दलयामास । ६५१) कण्ठे मञ्जुलकुञ्जरारिनखरव्याबद्धमुक्तामणी
___ मालां धैर्यगुणश्रियः प्रविचलद्दोलायमानां दधत् । चिक्रीड क्षितिपालबालककुलैालोलसत्कुण्डलः
सानन्दं पुरुनन्दनो मनुकुलप्राच्याचलाहस्करः ॥३४॥ ६५२ ) तदनु मनुकुलतिलकोऽयं बालको लोकयात्रावर्तनतत्परेण पुरुपरमेश्वरेण परिकलितान्नप्राशनचौलोपनयादिक्रमः, सवयोभिर्नरेन्द्रनन्दनैः सह प्रकटितपांसुविहारः, कुरङ्गमदकर्दम
संपादितरेखामण्डितगण्डमण्डलः, कुङ्कुमपांसुपटलसान्द्रसिन्दुरितमस्तकः, कदाचिन्मदान्धसिन्धुर१० निखिलगुरुजनानां नयनान्येव इन्द्रीवराणि कुवलयानि तेषामानन्दाय हर्षाय शरच्चन्द्रः शरदिन्दुः स भरत
कुमारः किल सुन्दरमन्मनहसितं मनोज्ञमन्दहसितं, मन्मनालापोऽव्यक्तमधुरशब्दः, लसितमणिकुट्टिमेषु शोभितरत्नवसुन्धरापृष्ठेषु चक्रमणं जानुभ्यां चलनं तदादिभिस्तत्प्रभृतिभिः पित्रो: माता च पिता चेति पितरी तयोर्मातापित्रोः आनन्दं हर्ष कन्दलयामास वर्धयामास । $ ५१ ) कण्ठ इति-कण्ठे ग्रीवायां धैर्यगुणश्रियो
धीरत्वगुणलक्ष्म्याः प्रविचलन्ती चासो दोला चेति प्रविचलद्दोला तद्वद् आचरतीति प्रविचलहोलायमाना ताम् १५ आन्दोल्यमानां दोलवदाचरन्तीम् मञ्जुलैमनोहरैः कुञ्जरारिनखैाघ्रनखराबद्धा व्यामिश्रा या मुक्तामणीमाला
मुक्तायष्टिस्तां दधत् बिभ्रत्, व्यालोले चञ्चले सत्कुण्डले शोभितकर्णाभरणे यस्य तथा भूतः, मनुकुलं मनुवंश एव प्राच्याचल: पूर्वगिरिस्तत्राहस्करः सूर्यः पुरुनन्दनो वृषभजिनेन्द्रनन्दनः क्षितिपालबालककुलः राजपुत्रसमूहै: सह सानन्दं सहर्ष यथा स्यात्तथा चिक्रोड क्रीडति स्म । रूपकालंकारः । शार्दूलविक्रीडितच्छन्दः ॥३४॥ ५.)
तदन्विति–तदनु तदनन्तरं मनुकुलतिलको मनुवंशश्रेष्ठः अयं बालको भरताभिधानः, लोकयात्रायाः लोक२० व्यवहारस्य वर्तने प्रवर्तने तत्परः समुद्युक्तस्तेन पुरुपरमेश्वरेण वृषभजिनेन्द्रेण परिकलिताः कृताः अन्नप्राशन
चौलोपनयादिक्रमा अन्नभक्षण-चूडासंस्कारयज्ञोपवीतसंस्कारप्रभृतिविधयो यस्य तथाभूतः सन्, सवयोभिः समानावस्थायुक्तैः नरेन्द्रनन्दनै राजपुत्र: सह प्रकटितः पांसुविहारो धूलिकेलियन तथाभूतः, कुरङ्गमदकर्दमेन कस्तुरीद्रवेण संपादिता रचिता या रेखास्ताभिर्मण्डितं शोभितं गण्डमण्डलं कपोलस्थलं यस्य सः, कुङ्कमस्य काश्मीरस्य पांसुपटलेन धूलिसमूहेन सान्द्रं यथा स्यात्तथा सिन्दुरितं रक्तवर्णीकृतं मस्तकं येन सः, कदाचित्
२५ चन्द्र था ऐसा वह भरत कुमार, सुन्दर किलकारियोंसे परिपूर्ण मन्द मुसकान, अव्यक्त मधुर
बोली और शोभायमान मणिमय फर्शपर घुटनोंके बल चलना आदिके द्वारा माता-पिताके हर्षको बढ़ा रहा था। $ ५१ ) कण्ठ इति-जो कण्ठमें धैर्य गुणरूपी लक्ष्मीके चञ्चल झूलाके समान सुशोभित, मनोहर व्याघ्र नखोंसे युक्त मुक्तामणियोंकी मालाको धारण कर रहा था,
जिसके उत्तम कुण्डल हिल रहे थे तथा जो मनुवंशरूपी उदयाचलपर सूर्यके तुल्य था ऐसा, ३० भगवान् वृषभदेवका वह पुत्र राजकुमारोंके समूह के साथ सानन्द क्रीड़ा करता था॥३४।।
६५२) तदन्विति-तदनन्तर लोक व्यवहारके चलाने में तत्पर वृषभजिनेन्द्रके द्वारा जिसके अन्नप्राशन, मुण्डन तथा यज्ञोपवीत आदि संस्कार किये गये थे ऐसा वह मनुवंशका तिलक स्वरूप बालक, समान अवस्थावाले राजकुमारोंके साथ कभी धूलिमें खेलता था, कभी
हाथीका रूप रखकर खेलता था, उस समय वह कस्तूरीके रससे निर्मित रेखाओंके द्वारा ३५ अपने गण्डस्थलोंको सुशोभित करता था तथा केशरकी परागके समूहसे अपने मस्तकको
अत्यधिक सिन्दूरसे युक्त किये हुएके समान लाल-लाल कर लेता था। जब और बड़ा हुआ तब सचमुच ही मदोन्मत्त हाथीपर सवार होकर हर्षसहित अपने योग्य वाहनोंपर बैठे हुए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org