SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ -२२ ] षष्ठः स्तबकः २२९ $१९ ) ततः सुरनिकरवन्दितचरण ! त्रिभुवनरमण ! धर्मवल्लिकामतल्लिकाबीजपरम्परायमाण ! प्रजासंततिसमुत्पत्तये कांचन काञ्चनवल्लीसरूपां सौन्दर्यवैभवनिरस्तरतिमदाटोपां विधृतमणिकलापां त्रिजगति धन्यां कन्यां परिणेतुमर्हसोति । ६२० ) अङ्गीचक्रे परमपुरुषः सस्मितस्तस्य वाचं दाक्षिण्याद्वा पितृविषयकात् किं प्रजानुग्रहाद्वा । तस्या ज्ञात्वाभ्युपगममथो भूपतिर्वीतशङ्को हर्षाच्चक्रे परिणयविधि देवराजानुमत्या ॥१४॥ $२१) तत्व्यौ कच्छमहाकच्छजाम्यो सौम्ये पतिवरे । ___ यशस्वती-सुनन्दाख्ये स एनं पर्यणीनयत् ॥१५॥ $ २२ ) तदानीं खलु साकेतपुरलक्ष्मीविलासमणिमुकुरायमाणे नूतनवितानवितति विलम्बि १० करोतु ॥१३॥ १९) तत इति-ततः तस्मात्कारणात् सुरनिकरैर्देवसमूहवन्दितौ नमस्कृतौ चरणौ यस्य तत्सं. बुद्धौ ! हे त्रिभुवनरमण हे त्रिलोकीनाथ ! प्रशस्ता वल्लिका वल्लिकामतल्लिका धर्म एव वल्लिकामतल्लिका धर्मवल्लिकामतल्लिका तस्या बीजपरम्परा बीजसंततिरिवाचरति तत्संबुद्धो ! 'मतल्लिकामचचिका प्रकाण्डभुद्धतल्लजी । प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥' इत्यमरः । प्रजासंततिसमुत्पत्तये संततिसमूहोत्पत्तये 'प्रजा स्यात्संततो जने' इत्यमरः । काञ्चनवल्लीसरूपां स्वर्णलतासदृशीं सौन्दर्यस्य लावण्यस्य वैभवेन निरस्तो १५ दूरीकृतो रतेर्मदनमानिन्या मदाटोपो गर्वविस्तारो यया तां, विधृतो मणिकलापो मणिमेखला यया तां त्रिजगति त्रिभुवने धन्या भाग्यशालिनी कांचन कन्यां पतिवरां परिणेतुं विवाहयितुम् अर्हसि योग्योऽसि । इतीत्थं नाभिराजो भगवन्तं जगाद । 'कलापः संहतो वर्हे काञ्च्यां भूषणतूणयोः' इति मेदिनो। $ २०) अङ्गीचक्र इतिपरमपुरुषो भगवान् सस्मितः समन्दहसितः सन् पिता विषयो यस्य तस्मात् पितृविषयकात् दाक्षिण्यात् औदार्यात् किम् । प्रजानुग्रहाद्वा लोकोपकाराद्वा तस्य नाभिराजस्य वाचं वाणीम् अङ्गीचक्रे स्वीचकार । अथो तस्य भगवतः अभ्युपगम स्वीकृति ज्ञात्वा भूपति भिराजः देवराजस्य सौधर्मेन्द्रस्यानुमत्या संमत्या वीतशङ्को निःशङ्कः सन् हर्षात् प्रमोदात् परिणयविधि विवाहविधि चक्रे कृतवान् । मन्दाक्रान्ता छन्दः ॥१४॥ २१) तन्व्याविति-स नाभिराजः तन्व्यौ कृशाङ्गयो कच्छ-महाकच्छयोः जाम्यो स्वसारौ 'जामी स्वसृकुलस्त्रियोः' इत्यमरः । सौम्ये सौम्याकारे यशस्वतोसुनन्दाख्ये तन्नाम्न्यो पतिवरे कन्ये एनं भगवन्तं पर्यणीनयत् विवाहयामास ॥१५॥ २२ ) तदानीमिति–तदानीं विवाहविधिविधानावसरे खलु निश्चयेन साकेतपुरलक्ष्म्या २५ अयोध्यानगरश्रिया विलासमणिमुकुरमिव विलासरत्नादर्शमिवाचरतीति तस्मिन्, नूतनवितानां नवीनचन्द्रोआपको वैसा देख अन्य मनुष्य भी ऐसी प्रवृत्ति करें ॥१३॥ $ १९ ) तत इति-इसलिए हे देव समूहके द्वारा पूजितचरण! हे त्रिलोकीनाथ ! हे धर्मरूपी श्रेष्ठलताकी बीज सन्ततिके समान आचरण करनेवाले! सन्तान समूहकी उत्पत्तिके लिए किस ऐसी कन्याको विवाहनेके योग्य हो जो सुवर्णलताके समान हो, अपने सौन्दर्य के विभवसे जिसने रतिके गर्वको नष्ट ३० कर दिया हो. जो मणि मेखलाको धारण कर रही हो तथा अत्यन्त भाग्यशालिनी हो। ६२०) अंगीचक्र इति-भगवान्ने मुसकुराकर नाभिराजके वचन स्वीकृत कर लिये सो क्या पिता सम्बन्धी सरलतासे स्वीकृत किये थे या प्रजाके अनुग्रहकी भावनासे । तदनन्तर उनकी स्वीकृतिको जानकर राजा नाभिराजने निःशंक होकर बड़े हर्षसे इन्द्रको अनुमति पूर्वक विवाहकी तैयारी की ॥१४॥ $ २१ ) तन्व्याविति-राजा नाभिराजने कृशांगी, सौम्यवर्ण ३५ कच्छ और महाकच्छकी बहिनें यशस्वती और सुनन्दा नामकी कन्याओं के साथ भगवान् वृषभदेवका विवाह कराया ॥१५।। ६२२) तदानीमिति-उस समय जो अयोध्यानगरको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy