SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २१८ पुरुदेवचम्पूप्रबन्ध [ ५६५९F५९) तन्मुखकान्तिपयोधौ स्मितचन्द्रः स मुदब्धिवृद्धिकरः । पित्रोर्मन्मनवाणीपीयूषं चाविरास सुरसेव्यम् ॥३६।। ६०) उत्तानशयनमुपगतस्य नरनाथनन्दनस्य मुष्टिद्वयं केषांचिद्वदनसुधाकरकान्तिसंक्रातिमुकुलितबाहुनालोदञ्चितकरकमलयुगलशङ्कामन्येषां च कर्मारिविजयसंनद्धनियुद्धार्थमाबद्धमुष्टि५ युगमति, परेषां च वक्षःस्थलविलसितमुक्ताहाररुचिसुरापगासंजातसुवर्णसरोजद्वयसंभावनाम्, इतरेषां पुनर्देहकान्तिकलशवरुणालयतरुणविद्रुमवल्लिकापल्लवतल्लजद्वन्द्वधियं च संपादयामास । $ ६१ ) इमं चुचुम्ब मुक्तिश्रीध्रुवं रागात्कपोलयोः । ताम्बूलस्य रसः सक्तो यत्कुण्डलरुचिच्छलात् ॥३७।। आविरास प्रादुर्बभूव । श्लेषव्यतिरेकोपमाः । $ ५९ ) तन्मुखेति-तस्य जिनस्य मुखकान्तिरेव वदनदीप्तिरेव १. पयोधिः सागरस्तस्मिन् पित्रोर्मातापित्रोः मुदब्धिवृद्धिकरः हर्षसागरवृद्धिकारकः स स्मितमेव चन्द्र: स्मितचन्द्रः मन्दहसितनिशाकरः सुरसेव्यं देवाराधनीयं, मन्मनवाण्येव अव्यक्तभारत्येव पोयूषं सुधेति मन्मनवाणीपीयूषं च आविरास प्रकटोबभूव । 'आस' इति तिङन्तप्रतिरूपकोऽव्ययः । रूपकालंकारः । आर्याछन्दः : ३६।। ६६०) उत्तानेति-उत्तानशयनम् उपगतस्य प्राप्तस्य नरनाथनन्दनस्य नरेन्द्रनन्दनस्य मुष्टिद्वयं मुष्टियुगलं केषांचित् जनानां वदनसुधाकरस्य मुखमृगाङ्कस्य या कान्तिर्दीप्तिस्तस्याः संक्रान्त्या संमिश्रणेन मुकुलितं १५ कुड्मलितं बाहुनालोदञ्चितं भुजनालोन्नमितं यत् करकमलयुगलं पाणिपद्मद्रयं तस्य शङ्कां संशीतिम्, अन्येषां च कर्मारीणां कर्मवैरिणां विजयाय संनद्धं सुनिश्चितं यद् नियुद्धं बाहुयुद्धं तदर्थं आबद्धं यद् मुष्टियुगं तस्य मति बद्धिम. परेषां च वक्षःस्थले विलसितः शोभितो यो मुक्ताहारस्तस्य रुचिः कान्तिरेव सूरापगा गङ्गा तस्यां संजातं समुत्पन्नं यत् सुवर्णसरोजद्वयं कनककमलयुगलं तस्य संभावनामुत्प्रेक्षाम्, इतरेषां पुनः देहकान्तिरेव शरीरदीप्तिरेव कलशवरुणालयः क्षीरसागरस्तस्मिन् विद्यमाना या तरुणविद्रमवल्लिका प्रौढप्रवालवल्ली तस्याः पल्लवतल्लजयोः किसलयश्रेष्ठयोः यद् द्वन्द्वं युगं तस्य धियं च बुद्धि च संपादयामास चकार । रूपकोप्रेक्षे ॥ ६.) इममिति-मुक्तिश्रीर्मुक्तिलक्ष्मीः रागात् स्नेहातिरेकात् इमं जिनं कपोलयोर्गण्डस्थलयोः ध्रुवं निश्चयेन चुचुम्ब चुम्बति स्म, यत् यस्मात् कारणात् कुण्डलरुचिच्छलात् कर्णाभरणकान्तिकपटात् ताम्बूलस्य है उसी प्रकार जिन बालकके अधरोष्ठपर मन्द मुसकानकी कान्ति सुशोभित हो रही थी। ६५९) तन्मुखेति-जिनबालककी मुखकान्तिरूप सागरमें माता-पिताके हर्षरूपी २५ समुद्रकी वृद्धिको करनेवाला वह मन्दहास्यरूप चन्द्रमा और देवोंके द्वारा सेवनीय अव्यक्त वाणीरूपी अमृत प्रकट हुआ था ॥३६।। ६६०) उत्तानेति-उत्तानशय्याको प्राप्त हुए जिनबालककी मुट्ठियोंका युगल, किन्हींको मुखरूपी चन्द्रमाकी कान्तिके सम्मिश्रणसे बन्द हुए भुजनालमें सुशोभित हस्तकमलयुगलकी शङ्काको सम्पन्न कर रहा था तो किन्हींको कर्मरूपी शत्रुओंको जीतने के लिए सुनिश्चित बाहुयुद्धके अर्थ बाँधे हुए मुक्कोंके युगलकी बुद्धि उत्पन्न कर रहा था, किन्हींको वक्षःस्थलपर सुशोभित मुक्ताहारकी कान्तिरूपी गंगानदीमें उत्पन्न हुए सुवर्णकमलोंके युगलकी सम्भावना सम्पन्न कर रहा था तो किन्हींको शरीरकी कान्तिरूपी क्षीरसागरमें विद्यमान प्रौढप्रवाललताके श्रेष्ठ पल्लवोंके युगलकी बुद्धि उत्पन्न कर रहा था। ६६१) इममिति-जान पड़ता है कि मुक्तिरूपी लक्ष्मीने रागकी प्रबलतासे कपोलोंपर इस जिनबालकका चुम्बन किया था क्योंकि कुण्डलोंकी कान्तिके छलसे उसके पानका रस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy