SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २०६ १५ पुरुदेवचम्पूप्रबन्धे [ ५१६३१भिर्मुखरितदिङ्मुखास्ते पुरंदरप्रमुखा बहिर्मुखाः साकेतपुरागमनसंमुखा गगनतलमुत्पत्य क्वचिन्मणिभूषणगणकान्तिबालातपेन हर्षितचक्रवाकाः, क्वचिन्मुक्तामरीचिवीचितोषितचकोराः क्रमेण सुगन्धिगन्धवहस्तनंधयव्यालोलविमलपता कापटैः सुरनिकरमाह्वयन्तीमिव विलसन्ती साकेतपुरी मभितः सप्ताङ्गबलानि निवेश्य, प्रविश्य च तत्र निराकृतसुरालयं नाभिराजालयं सुरविरचित५ विविधमणिगणरुचिनिचयरुचिरभ्रमरततिविततसुरतरुकुसुमसुरभितश्रीगृहाङ्गणशोभितसिंहविष्टरे तं जिनाभकं निवेशयामासुः ।। ६३१) सुतमुखनिशाधीशालोकप्रवृद्ध मुदम्बुधि प्रवरजठरे मग्नाविन्द्रो जगत्पितराविमौ । स्मितयुतमुखः सर्वं तं निवेद्य तदादरात् प्रमदजलधेः पारं ती दम्पती द्रुतमानयत् ।।२०।। घोषणा जयध्वनिश्व तदादिभिः मुखरितं वाचालितं दिङ्मुखं यैस्तथाभूताः ते पूर्वोक्ताः पुरंदरप्रमुखा इन्द्रप्रधाना बहिर्मुखा देवाः साकेतपुरागमनसंमुखा अयोध्यागमनतत्पराः सन्तः गगनतलं नभस्तलम् उत्पत्य समुद्गत्य क्वचित् मणिभूषणगणस्य रत्नालंकार निकरस्य कान्तिरेव बालातपः प्रातस्तनधर्मस्तेन हर्षिता: चक्रवाका रथाङ्गा यैस्तथाभूताः, क्वचित् मुक्तामरीचीनां मौक्तिकमयूखानां वीचिभिः संततिभिः संतोषिताः चकोरा जीवंजीवा यैस्तथाभूताः सन्तः सुगन्धिश्चासो गन्धवहस्तनंधयश्चेति सुगन्धिगन्धवहस्तनंधयः सुगन्धितमन्दसमीरस्तेन व्यालोलाश्चपला ये विमलपताकापटा निर्मलवैजयन्तीवस्त्राणि तैः सुरनिकरं देवसमहम् आह्वयन्तीमिव आकारयम्तीमिव विलसन्ती शोभमानां साकेतपुरीम् अयोध्यापुरीम् अभितः परितः सप्ताङ्गबलानि सप्तविधसैन्यानि निवेश्य स्यापयित्वा तत्र साकेतपुर्या निराकृतसूरालयं तिरस्कृतस्वर्ग नाभिराजालयं नाभिराज. भवनं प्रविश्य च सुरविरचितानां देवनिर्मितानां विविधमणिगणानां नानारत्नराशीनां रुचिनिचयेन किरणकलापेन रुचिरं शोभितं भ्रमरततिविततानि भृङ्गसमूहव्याप्तानि यानि सुरतरुकुसुमानि कल्पवृक्षपुष्पाणि तैः शोभितं तथाभूतं यत् श्रीगृहाङ्गणं श्रीगृहचत्वरं तस्मिन् विशोभितसिंहविष्टरे विशोभितसिंहासने तं जिनार्भकं जिनशिशं निवेशयामासुः निविष्टं चक्रुः ॥ ३१) सुतेति-स्मितयुतं मन्दहसितसहितं मुखं यस्य तथाभूत इन्द्रः सुतमुखं पुत्रवक्त्रमेव निशाधीशश्चन्द्रस्तस्यालोकेन दर्शनेन प्रकाशेन वा प्रवृद्धो वृद्धिंगतो यो मदम्बुधि हर्षसागरस्तस्य प्रवरजठरे श्रेष्ठमध्ये मग्नो बुडितो इमो जगत्पितरी जगन्मातापितरो मरुदेवीनाभिराजौ आदरात् समादरपूर्वकं तत् पूर्वोक्तं सर्वं वृत्तं निखिलं वृत्तान्तं निवेद्य कथयित्वा ती दम्पती जायापती द्रुतं क्षिप्रं प्रमदजलधेः प्रमोदपारावारस्य पारमन्तम् आनयत् प्रापयामास । रूपकालंकारः । हरिणीच्छन्दः ॥१९॥ और जयघोषणा आदिके द्वारा दिगदिगन्तको मुखरित करनेवाले वे इन्द्र आदि देव अयोध्यानगरीके सम्मुख हो आकाशतलको ओर उड़े। वे कहीं तो मणिमय आभषणों की कान्तिरूप सुनहली धूपसे चकवोंको हर्षित कर रहे थे और कहीं मोतियोंकी किरणसन्ततिसे चकोरोंको सन्तुष्ट कर रहे थे। इस तरह वे क्रमसे मन्द सगन्ध पवनके द्वारा हिलती हई पताकाओंके वस्त्रों द्वारा देवसमहको बलाती हईके समान सशोभित अयोध्यानगरी जा पहुँचे । उसके चारों ओर सात प्रकारकी सेनाओंको ठहराकर उन्होंने स्वर्गको तिरस्कृत करनेवाले नाभिराजके भवन में प्रवेश किया तथा देवोंके द्वारा निर्मित नाना प्रकारके मणि गणकी कान्तिके समूहसे सुन्दर और भ्रमर पक्तियोंसे व्याप्त कल्पवृक्षके फूलोंसे सुगन्धित ३५ श्रीगृहके आँगनमें सुशोभित सिंहासनपर जिनबालकको विराजमान किया।३१) सुतेति- मन्द-मन्द मुसकानसे युक्त मुखवाले इन्द्रने, पुत्रके मुखरूपी चन्द्रमाके देखनेसे वृद्धिको प्राप्त हुए हर्षरूपी सागरके श्रेष्ठ मध्यभागमें निमग्न इन जगत्के माता-पिताको आदरपूर्वक २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy